त्वज्जितारातयः सर्वे विविधायुधवाहनाः
क्षणेन दग्धवीर्याः स्युस्त्वत्प्रसादविवर्जिताः
त्रिलोकनाथतां प्राप्तः प्रथते कीर्तिमण्डितः
न शत्रुभ्यो भयं किंचिद्भवेद्विजयशालिनाम् 1.3.1.11.
पूज्यतामिष्टसिद्ध्यर्थं देवैर्भृत्यैश्च सर्वदा
सगणाः प्रतिपूज्यंतां सर्वस्थानेषु सर्वदा
तव भक्तैः सदा पूज्यस्त्वत्प्रमादात्त्वदग्रतः
तथेति वरदा देवी ससर्ज च दिवं प्रति
संस्थाप्य मातृभिः सार्धं स्थानरक्षणमातनोत्
महिषस्य शिरोऽपश्यद्विकृतं खङ्गधारया
सखीभिः सह सा बाला कण्ठं तस्य व्यलोकयत्
आदत्त सहसा गौरी लिगं तस्य गले स्थितम्
आसज्जत पुनर्लिंगमस्याः पाणितलं गतम्
अचिंतयच्च सा देवी किमेतदिति विस्मयात् 1.3.1.11.
आहतः शिवभक्तोऽयमिति शोकं समाविशत्
अविचार समारब्धं शिवभक्तनिबर्हणम्
उपगम्याब्रवीद्बाला साहसं कृतमात्मना
मान्यया धर्मरूपेण कोऽप्यधर्मः प्रकल्पितः
अज्ञानान्महिषं दैत्यं शिवभक्तिममर्दयम्
गुरुप्रसादसुलभः स्फुरद्विघ्नशताकुलः
विशेषतो लिंगधराः शिवस्तान्बहु मन्यते
अजिताः शंभुना पूर्वं मुक्तलिंगा निषूदिताः
कथं पापं निरस्यामि शिवभक्तवधाश्रितम्
तीर्थयात्रां करिष्यामि यावच्छंभुः प्रसीदति 1.3.1.11.
तीर्थेषु रचितस्नाना लप्स्ये पापविशोधनम्
आकर्ण्य शिवधर्मज्ञो भयार्त्तां तामवोचत
धर्मसूक्ष्मार्थवेत्तारौ दुर्लभा गिरिकन्यके
आगमाः पंचभिः प्रोक्ता अष्टाविंशतिकोटयः
तेषुतेषु मुनींद्रैश्च नत्वैव प्रतिपद्यते
महाव्रतं पंच चैताः शिवमार्गप्रवृत्तयः