तदा सुरैः कथितं सर्वमेतद्वाण्या चोक्तं यत्पुरा कार्यहेतोः २०.
शिवस्य पुत्रेण च धीमता यदा वध्यो दैत्यस्तारको वै महात्मा २०.
तस्मात्तदेनत्क्रियतां भवद्भिर्यथा महेशः कुरुते परिग्रहम् २०.
तस्य तद्वचनं श्रुत्वा प्रहस्योचुः सुरास्तदा २०.
सुराणां च गिरे वाक्यं कुरु शीघ्रं महामते २०.
इत्युक्तो गिरिराजोऽथ देवैः स्वगृहमामाविशत् २०.
जनितव्या सुकन्यैका सुरकार्यार्थसिद्धये २०.
प्रियं न भवति स्त्रीणां कन्याजननसेव च २०.
प्रहस्य मेना प्रोवाच स्वपतिं च हिमालयम् २०.
कन्या सदा दुःखकरी नृणां पते स्त्रीणां तथा शोककरी महामते २०.
हिमवांस्तदुपश्रुत्या प्रियाया वचनं तदा २०.
येनयेन प्रकारेण परेषामुपजीवनम् २०.
स्त्रियापि चैव तत्कार्यं परोपकरणान्वितम् दधार जठरे कन्यां मेना भाग्यवती तदा॥ २०.
महाविद्या महामाया महामेधास्वरूपिणी २०.
तां विभूतिं विशालाक्षी जठरे परमां सती २०.
स्तुतिं चक्रुस्तदा देवा ऋषयो यक्षकिन्नराः २०.
एतस्मिन्नंतरे जाता गिरिजा नाम नामतः २०.
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः २०.
पुष्पवर्षेण महता ववृषुर्विबुधास्तथा २०.
यदावतीर्णा गिरिजा महासती तदैव दैत्या भयमाविशंस्ते २०.
वर्द्धमाना तदा साध्वी रराज प्रतिवासरम् २१.
महेशो हिमवद्द्रोण्यां तताप परमं तपः २१.
एतत्तपो जुषाणं तं महेशं हिमवान्ययौ २१.
यावत्समागतो द्रष्टं नंदिनासौ निवारितः २१.
पुनर्विज्ञापयामास नंदिना हिमवान्गिरिः २१.
तदाकर्ण्य वचस्तस्य नंदिनः परमेश्वरः २१.
तथेति मत्वा नंदी तं पर्वतं च हिमाचलम् २१.
दृष्ट्वा तदानीं सकलेश्वरं प्रभुं तपो जुषाणं विनिमीलितेक्षणम्॥ २१.
कपर्द्धिनं चंद्रकलाविभूषणं वेदांतवेद्यं परमात्मनि स्थितम् २१.
उवाच वाक्यं जगदेकमंगलं हिमालयो वाक्यविदां वरिष्ठः॥ २१.