जाता दैत्यास्ततो विप्रा इंद्रोपद्रवकारकाः २०.
निवातकवचाः सर्वे रवरावकसंज्ञकाः २०.
तारको नमुचेः पुत्रस्तपसा परमेण हि २०.
वरान्ददौ यथेष्टांश्च तारकाय दुरात्मने २०.
तच्छत्वा वचनं तस्य ब्रह्मणः परमेष्ठिनः २०.
यदि मे त्वं प्रसन्नऽसि अजरामरतां प्रभो २०.
एवमुक्तस्तदा तेन तारकेण दुरात्मना २०.
जातस्य हि ध्रुवो मृत्युरेतज्जानीहि तत्त्वतः २०.
ब्रह्मोवाच तदा दैत्यजेयत्वं तवानघ २०.
तदा स तारकः प्राह ब्रह्माणं प्रणतः प्रभो २०.
एवं लब्धवरो भूत्वा तारको हि महाबलः २०.
मुचुकुन्दं समाश्रित्य देवास्ते जयिनोऽभवन् २०.
मुचुकुन्दबलेनैव जयमापुःसुरास्तदा २०.
भवितव्यमिति स्मृत्वा गतास्ते ब्रह्मणः पदम् २०.
बलिना सह पातालमास्तेऽसौ मधुसूदनः २०.
दैत्येंद्रैश्च महाभाग त्रातुमर्हसि नः प्रभो २०.
हे देवाः क्रियतामाशु मम वाक्यं हि तत्त्वतः २०.
युद्धे पुनस्तारकं च वधिष्यति न संशयः २०.
दारापरिग्रही देवास्तथा नीतिर्विधीयताम् २०.
यूयं देवा विजानीध्वमित्युवाचाशरीरवाक् २०.
श्रुत्वा नभोगतां वाणीमाजग्मुस्ते हिमालयम् २०.
हिमालयं महाभागाः सर्वे कार्यार्थगौरवात् २०.
तारकस्त्रासयत्यस्मान्साहाय्यं तद्वधे कुरु तस्मात्सर्वे वयं याता महेंद्रसहिता विभो॥ २०.
एवमभ्यर्थितो देवैर्हिमवान्गिरिसत्तमः २०.
महेन्द्र मुद्दिश्य तदा ह्युपहाससमन्वितः २०.
किं कुर्मः सुरकार्यं च तारकस्य वधं प्रति २०.
तदा वयं घातयामस्तारकं सह बांधवैः २०.
तस्य तद्वचनं श्रुत्वा सर्वे देवास्तमब्रुवन् तारकस्य महाभाग एतत्कार्यं विचंत्यताम्॥ २०.
येन साध्यो भवेच्छत्रुस्तारको हि महाबलः २०.
केनोपायेन भो देवास्तारकं हंतुमिच्छथ २०.