एवं सर्वाणि नामानि सार्थकानि महात्मनः २०.
यदा दाक्षायणी चाग्नौ पतिता यज्ञकर्मणि २०.
प्रादुर्भूता कदा सूत कथ्यतां तत्त्वयाऽधुना २०.
एतत्सर्वं महाभाग पूर्ववृत्तं च तत्त्वतः २०.
जज्ञे दाक्षायणी ब्रह्मन्विदग्धावयवा यदा २०.
लीलागृहीतवपुषा पर्वते हिमवद्गिरौ २०.
तथा चंडेन मुंडेन तथान्यैर्बहुभिर्वृतः २०.
गणानां चैव कोट्या च तथा षष्टिसहस्रकैः २०.
तपो जुषाणः सहसा महात्मा हिमालयस्याग्रगतस्तथैव २०.
एतस्मिन्नंतरे दैत्याः प्रादुर्भूता ह्यविद्यया २०.
जाता दैत्यास्ततो विप्रा इंद्रोपद्रवकारकाः २०.
निवातकवचाः सर्वे रवरावकसंज्ञकाः २०.
तारको नमुचेः पुत्रस्तपसा परमेण हि २०.
वरान्ददौ यथेष्टांश्च तारकाय दुरात्मने २०.
तच्छत्वा वचनं तस्य ब्रह्मणः परमेष्ठिनः २०.
यदि मे त्वं प्रसन्नऽसि अजरामरतां प्रभो २०.
एवमुक्तस्तदा तेन तारकेण दुरात्मना २०.
जातस्य हि ध्रुवो मृत्युरेतज्जानीहि तत्त्वतः २०.
ब्रह्मोवाच तदा दैत्यजेयत्वं तवानघ २०.
तदा स तारकः प्राह ब्रह्माणं प्रणतः प्रभो २०.
एवं लब्धवरो भूत्वा तारको हि महाबलः २०.
मुचुकुन्दं समाश्रित्य देवास्ते जयिनोऽभवन् २०.
मुचुकुन्दबलेनैव जयमापुःसुरास्तदा २०.
भवितव्यमिति स्मृत्वा गतास्ते ब्रह्मणः पदम् २०.
बलिना सह पातालमास्तेऽसौ मधुसूदनः २०.
दैत्येंद्रैश्च महाभाग त्रातुमर्हसि नः प्रभो २०.
हे देवाः क्रियतामाशु मम वाक्यं हि तत्त्वतः २०.
युद्धे पुनस्तारकं च वधिष्यति न संशयः २०.
दारापरिग्रही देवास्तथा नीतिर्विधीयताम् २०.
यूयं देवा विजानीध्वमित्युवाचाशरीरवाक् २०.