व्यासेन कथितं सर्वमस्मिन्नर्थे शुकं प्रति लिंगरूपी कथं शंभुर्निर्गुणः कथते त्वया २०.
श्रुणु वत्स ब्रवीम्येतत्पुरा प्रोक्तं च नंदिना २०.
निर्गुणं परमात्मानं विद्धि लिंगस्वरूपिणम् २०.
यया कृतिमिदं सर्वं गुणत्रयविभावितम् २०.
एक एव परो ह्यात्मा लिंगरूपी निरंजनः २०.
यस्मिन्नेव ततो लिंगं लयनात्कथितं पुरा २०.
लीना गुणाश्च रुद्रोक्त्या यैरिदं बद्धमेव च २०.
लिंगं च निर्गुणं साक्षाज्जानीध्वं भो द्रिजोतमाः २०.
शंकरः सुखदाता हि उच्यमानो मनीषिभिः २०.
शंभुर्हि कथ्यते विप्रा यस्माच्च शुभसंभवः॥ २०.
एवं सर्वाणि नामानि सार्थकानि महात्मनः २०.
यदा दाक्षायणी चाग्नौ पतिता यज्ञकर्मणि २०.
प्रादुर्भूता कदा सूत कथ्यतां तत्त्वयाऽधुना २०.
एतत्सर्वं महाभाग पूर्ववृत्तं च तत्त्वतः २०.
जज्ञे दाक्षायणी ब्रह्मन्विदग्धावयवा यदा २०.
लीलागृहीतवपुषा पर्वते हिमवद्गिरौ २०.
तथा चंडेन मुंडेन तथान्यैर्बहुभिर्वृतः २०.
गणानां चैव कोट्या च तथा षष्टिसहस्रकैः २०.
तपो जुषाणः सहसा महात्मा हिमालयस्याग्रगतस्तथैव २०.
एतस्मिन्नंतरे दैत्याः प्रादुर्भूता ह्यविद्यया २०.
जाता दैत्यास्ततो विप्रा इंद्रोपद्रवकारकाः २०.
निवातकवचाः सर्वे रवरावकसंज्ञकाः २०.
तारको नमुचेः पुत्रस्तपसा परमेण हि २०.
वरान्ददौ यथेष्टांश्च तारकाय दुरात्मने २०.
तच्छत्वा वचनं तस्य ब्रह्मणः परमेष्ठिनः २०.
यदि मे त्वं प्रसन्नऽसि अजरामरतां प्रभो २०.
एवमुक्तस्तदा तेन तारकेण दुरात्मना २०.
जातस्य हि ध्रुवो मृत्युरेतज्जानीहि तत्त्वतः २०.
ब्रह्मोवाच तदा दैत्यजेयत्वं तवानघ २०.
तदा स तारकः प्राह ब्रह्माणं प्रणतः प्रभो २०.