तस्यास्तद्वचनं श्रुत्वा परितुष्टो जनार्दनः १९.
सुतलंगच्छ दैत्येन्द्र मा विलंबितुमर्हसि १९.
परितुष्टोऽस्म्यहं तात किं कार्यं करवाणि ते १९.
वरं वरय भद्रं ते सर्वान्कामान्ददामि ते १९.
विमुक्तो हि परिष्वक्तो देवदेवेन चक्रिणा १९.
त्वया कृतमिदं सर्वं जगदेतच्चराचरम् १९.
भक्तिरस्तु पदांभोजे तव देव जनार्दन १९.
एवमभ्यर्थितस्तेन भगवान्भूतभावनः १९.
बले त्वं सुतलं याहि ज्ञातिसंबंधिभिर्वृतः १९.
सुतले किं नु मे कार्यं देवदेव वदस्व मे १९.
तदोवाच हृषीकेशो बलिं तं कृपयाऽन्विततः १९.
द्वारि स्थितस्तव विभो निवासामि नित्यं मा खिद्यतामसुरवर्य बले श्रृणुष्व १९.
तच्छ्रुत्वा वचनं तस्य विष्मोरतुलतेजसः १९.
तदा पुत्रशतेनैव बाणमुख्येन सत्वरम् १९.
त्रैलोक्ये याचका ये च सर्वे यांति बलिं प्रति १९.
भुक्तिकामाश्च ये केचिन्मुक्तिकामास्तथा परे १९.
एवंविधो बलिर्जातः प्रसादाच्छंकरस्य च १९.
अशुचिं भूमिमासाद्य गंधपुष्पादिकं महत् १९.
किं पुनः परया भक्त्या चार्चयंति महेश्वरम् १९.
शिवात्परतरो नास्ति पूजनीयो हि भो द्विजाः १९.
जातिहीनाश्च चंडालाः श्वपचा ह्यंत्यजा ह्यमी १९.
तस्मात्सदाशिवः पूज्यः सर्वैरेवमनीषिभिः १९.
महेशं परमारथज्ञाश्चिंतयंति हृदि स्थितम् १९.
विना शिवेन यत्किंचिदशिवं भवति क्षणात् १९.
रजोगुणान्वितो ब्रह्मा विष्णुः सत्त्वगुणान्वितः १९.
लिंगरूपो महादेवो ह्यर्चनीयो मुमुक्षुभिः १९.
ब्रह्मा विष्णुश्च रुद्रश्च सगुणाः कीर्तितास्त्वया २०.
त्रिभिर्गुणैर्व्याप्तमिदं चराचरं जगन्महद्व्याप्यथ वाल्पकं वा २०.
यद्दृश्यमानं महदल्पकं च तन्नश्वरं कृतकत्वाच्च सूत॥ २०.
तस्माद्विमृश्य भोः सूत संशयं छेत्तुमर्हसि २०.