अनेनैव प्रदत्ता मे मही त्रिपदलक्षणा १९.
अनेन मम दातव्यं तृतीयं पदमेव च १९.
श्रुत्वा भगवतो वाक्यमुवाच परमं वचः १९.
क्रांतं त्रिभुवनं चाद्य त्वया विक्रमरूपिणा १९.
किंचिन्न दत्ता हि विभो देवदेव जगत्पते १९.
पदानि त्रीणि मे चाद्य दातव्यानि कुतोऽधुना तदोवाच च सा साध्वी ह्युरुक्रममवस्थिता॥ १९.
त्वया कुतो वेयमुरुक्रमेण क्रांता त्रिलोकी भुवनैकनाथ १९.
तस्माद्विहाय तद्विष्णो त्वमेवं कुरु संप्रति ददाति मे पतिस्तेद्य नात्र कार्या विचारणा॥ १९.
निधेहि मे पदं त्वं हि शीर्ष्णि देववर प्रभो १९.
तृतीयं च जगन्नाथ कुरु शीर्ष्णि पतेर्मम १९.
तस्यास्तद्वचनं श्रुत्वा परितुष्टो जनार्दनः १९.
सुतलंगच्छ दैत्येन्द्र मा विलंबितुमर्हसि १९.
परितुष्टोऽस्म्यहं तात किं कार्यं करवाणि ते १९.
वरं वरय भद्रं ते सर्वान्कामान्ददामि ते १९.
विमुक्तो हि परिष्वक्तो देवदेवेन चक्रिणा १९.
त्वया कृतमिदं सर्वं जगदेतच्चराचरम् १९.
भक्तिरस्तु पदांभोजे तव देव जनार्दन १९.
एवमभ्यर्थितस्तेन भगवान्भूतभावनः १९.
बले त्वं सुतलं याहि ज्ञातिसंबंधिभिर्वृतः १९.
सुतले किं नु मे कार्यं देवदेव वदस्व मे १९.
तदोवाच हृषीकेशो बलिं तं कृपयाऽन्विततः १९.
द्वारि स्थितस्तव विभो निवासामि नित्यं मा खिद्यतामसुरवर्य बले श्रृणुष्व १९.
तच्छ्रुत्वा वचनं तस्य विष्मोरतुलतेजसः १९.
तदा पुत्रशतेनैव बाणमुख्येन सत्वरम् १९.
त्रैलोक्ये याचका ये च सर्वे यांति बलिं प्रति १९.
भुक्तिकामाश्च ये केचिन्मुक्तिकामास्तथा परे १९.
एवंविधो बलिर्जातः प्रसादाच्छंकरस्य च १९.
अशुचिं भूमिमासाद्य गंधपुष्पादिकं महत् १९.
किं पुनः परया भक्त्या चार्चयंति महेश्वरम् १९.
शिवात्परतरो नास्ति पूजनीयो हि भो द्विजाः १९.