समर्थोस्मि महापक्ष गृपणो न भवाम्यहम् १९.
असमर्थो ह्यहं तात कृतोऽनेन महात्मना १९.
जानन्नपि च दैत्येंद्र गुरुणापि निवारितः १९.
दातव्यं तत्पदं विष्णोस्तृतीयं यत्प्रतिश्रुतम् १९.
न ददासि तृतीयं च पदं मे स्वामिनः कथम् बबंध वारुणैः पाशैर्विरोचन सुतं तदा॥ १९.
नितरां निष्ठुरो भूत्वा गरुडो जयतां वरः १९.
बाणमेकं समारोप्य वामनस्याग्रतः स्थिता १९.
तदोवाच महातेजाः प्रह्लादो ह्यसुराधिपः १९.
प्रह्लादस्य वचः श्रुत्वा वामनो वाक्यमब्रवीत् एवमुक्ता भगवता विंध्यावलिरभाषत॥ १९.
कस्माद्बद्धो मम पतिर्गरुडेन महात्मना तदोवाच महातेजा बटुवेषधरो हिः॥ १९.
अनेनैव प्रदत्ता मे मही त्रिपदलक्षणा १९.
अनेन मम दातव्यं तृतीयं पदमेव च १९.
श्रुत्वा भगवतो वाक्यमुवाच परमं वचः १९.
क्रांतं त्रिभुवनं चाद्य त्वया विक्रमरूपिणा १९.
किंचिन्न दत्ता हि विभो देवदेव जगत्पते १९.
पदानि त्रीणि मे चाद्य दातव्यानि कुतोऽधुना तदोवाच च सा साध्वी ह्युरुक्रममवस्थिता॥ १९.
त्वया कुतो वेयमुरुक्रमेण क्रांता त्रिलोकी भुवनैकनाथ १९.
तस्माद्विहाय तद्विष्णो त्वमेवं कुरु संप्रति ददाति मे पतिस्तेद्य नात्र कार्या विचारणा॥ १९.
निधेहि मे पदं त्वं हि शीर्ष्णि देववर प्रभो १९.
तृतीयं च जगन्नाथ कुरु शीर्ष्णि पतेर्मम १९.
तस्यास्तद्वचनं श्रुत्वा परितुष्टो जनार्दनः १९.
सुतलंगच्छ दैत्येन्द्र मा विलंबितुमर्हसि १९.
परितुष्टोऽस्म्यहं तात किं कार्यं करवाणि ते १९.
वरं वरय भद्रं ते सर्वान्कामान्ददामि ते १९.
विमुक्तो हि परिष्वक्तो देवदेवेन चक्रिणा १९.
त्वया कृतमिदं सर्वं जगदेतच्चराचरम् १९.
भक्तिरस्तु पदांभोजे तव देव जनार्दन १९.
एवमभ्यर्थितस्तेन भगवान्भूतभावनः १९.
बले त्वं सुतलं याहि ज्ञातिसंबंधिभिर्वृतः १९.
सुतले किं नु मे कार्यं देवदेव वदस्व मे १९.