न दातव्यं त्वया दानं विष्णवे बटुरूपिणे तस्मात्त्वया न पूज्यो हि विष्णुरध्यात्मदीपकः॥ १८.
पुरा कृतमनेनैव मोहिनीरूपधारिणा १८.
येन विद्राविता दैत्याः कालनेमिर्हतो बली॥ १८.
एवंविधोऽयं पुरुषो महात्मा स ईश्वरो विश्वपतिः स एव १८.
एवं संबोधितो दैत्यो गुरुणा भार्गवेण हि १९.
त्वयोक्तोहं हितार्थाय यैर्वाक्यैश्चालितोऽस्म्यहम् १९.
दास्यामि भिक्षितं चास्मै विष्मवे बटुरूपिणे १९.
येषां हृदि स्थितो विष्णुस्ते वै पात्रतमा ध्रुवम् १९.
येन वेदाश्च यज्ञाश्च मंत्रतंत्रादयो ह्यमी १९.
आगतः कृपया मेद्य सर्वात्मा हरिरीश्वरः १९.
तस्य तद्वचनं श्रुत्वा चुकोप च रुषान्वितः १९.
मम वाक्यमतिक्रम्य दातुमिच्छस्यरिंदम १९.
एवं शशाप च तदा परमार्थविज्ञं शिष्यं महात्मानमगाधबोधम् १९.
गते तु भार्गवे तस्मिन्बलिर्विरोचनात्मजः १९.
विंध्यावलिः समागत्य बलेरर्द्धांगशोभिता १९.
संकल्पपूर्वेण तदा विधिना विधिकोविदः १९.
यदैकेन मही व्याप्ता विष्णुना प्रभविष्णुना १९.
सत्यलोकगतो विष्णोश्चरणः परमेष्ठिना १९.
तत्पादसंपर्कजलाच्च जाता भागीरथी सर्वसुमंगला च यया कपर्दः परिपूरितो वै शंभोस्तदानीं च भगीरथेन॥ १९.
तीर्थानां तीर्थमाद्यं च गंगाख्यमवतारितम् १९.
त्रिविक्रमात्परो ह्यात्मा नाम्ना त्रिविक्रमोऽभवत् १९.
पदद्वयेन वा पूर्णं जगदेतच्चराचरम् पुनश्च बटुरूपोऽसावुपविश्य निजासने॥ १९.
तदा देवाः सगंधर्वा मुनयः सिद्धचारणाः १९.
तत्र ब्रह्मा समागत्य स्तुतिं चक्रे परात्मनः १९.
एभिः सर्वैः परिवृतो वामनो बलिसद्मनि १९.
दैत्योऽसौ बालिशो भूत्वा दत्तानेन मही मम १९.
पदमेकं प्रतिश्रुत्य न ददाति हि दुर्मतिः १९.
इत्युक्तो गरुडस्तेन वामनेन महात्मना १९.
रे बले किं त्वया मूढ कृतमस्ति जुगुप्सितम् औदार्येण हि किं कार्यमल्पकेन त्वयाधुना॥ १९.
इत्युक्तो बलिराविष्टः स्यमानः खगेश्वरम् १९.