श्रुतमस्ति मया सर्वं चरितं तव सुव्रत १८.
उटजार्थे च मे देहि भूमीं भूमिभृतांवर १८.
हे बटो पंडितो भूत्वा यदुक्तं वचनं पुरा १८.
वद शीघ्रं महाभाग कियन्मात्रां महीं तव १८.
तदाह वामनो वाक्यं स्मयन्मधुरया गिरा १८.
संतुष्टा ये हि विप्रास्ते नान्ये वेषधरा ह्यमी १८.
निर्मत्सरा जितकोधावदान्या हि महामते १८.
मनस्वी त्वं बहुत्वाच्च दातासि भुवनत्रये १८.
बहुत्वे नास्ति मे कार्यं मह्या वै सुरसूदन १८.
त्रिपदं पूर्यतेऽस्माकं वस्तुं नास्त्यत्र संशयः तावत्संख्या प्रदातव्या यदि दातासि भो बले॥ १८.
प्रहस्य तमुवाचेदं बलिर्वैरोचनात्मजः १८.
मदीयां वै महाभाग मया दत्तां गृहाम वै १८.
याचको ह्यल्पको वास्तु दाता सर्वं विमृश्य वै १८.
आत्मौपम्येन सर्वत्र यो ददाति ह्युदारधीः १८.
बटो ददाम्यहं तेऽद्य ससैलवनकाननाम् १८.
पुनः प्रोवाच स बटुर्विरोचनसुतं प्रति १८.
बटोस्तद्वचनं श्रुत्वा असुरेन्द्रो बलिस्तदा गृह्यतां च मया दत्तां पदैस्त्रिभिरलंकृताम्॥ १८.
इत्युक्तो वामनः प्राह प्रहसन्नसुरं प्रति १८.
तथेति मत्वा बलिना सुपूजितः स वामनः कश्यपनंदनो महान् १८.
तं पूजयित्वा स बलिर्यावद्दातुं समुद्यतः १८.
न दातव्यं त्वया दानं विष्णवे बटुरूपिणे तस्मात्त्वया न पूज्यो हि विष्णुरध्यात्मदीपकः॥ १८.
पुरा कृतमनेनैव मोहिनीरूपधारिणा १८.
येन विद्राविता दैत्याः कालनेमिर्हतो बली॥ १८.
एवंविधोऽयं पुरुषो महात्मा स ईश्वरो विश्वपतिः स एव १८.
एवं संबोधितो दैत्यो गुरुणा भार्गवेण हि १९.
त्वयोक्तोहं हितार्थाय यैर्वाक्यैश्चालितोऽस्म्यहम् १९.
दास्यामि भिक्षितं चास्मै विष्मवे बटुरूपिणे १९.
येषां हृदि स्थितो विष्णुस्ते वै पात्रतमा ध्रुवम् १९.
येन वेदाश्च यज्ञाश्च मंत्रतंत्रादयो ह्यमी १९.
आगतः कृपया मेद्य सर्वात्मा हरिरीश्वरः १९.