ब्रह्मरूपेण महता व्याप्तमासीद्दिगंतरम् १८.
तच्छ्रुत्वा च बलिः प्राह शंडामर्क्कौ च बुद्धिमान् १८.
तथेति मत्वा त्वरितावुत्थितौ तौ तदा द्विजाः १८.
ददृशाते महात्मानं श्रीहरिं बटुरूपिणम् १८.
ब्रह्मचारी समायात एक एव न चापरः किमर्थं तन्न जानीमो जानीहि त्वं महामते॥ १८.
एवमुक्ते तु वचने ताभ्यां स च महामनाः १८.
स ददर्श महातेजा विरोचनसुतो महान् १८.
आनयित्वा बटुं सद्यः संनिवेश्यः निजासने १८.
विनम्रकंधरो भूत्वा उवाच श्लक्ष्णया गिरा १८.
तच्छ्रुत्वा वचनं तस्य विरोचनसुतस्य वै १८.
त्वं हि राजा त्रिलोकेशो नान्यो भवितुमर्हसि १८.
समं वा चाधिको वापि यो गच्छेत्पुरुषः स्मृतः १८.
दैत्यानां च वरिष्ठा ये हिरण्यकसिपादयः १८.
शरीरं भक्षितं यस्य जुषाणस्य तपो महत् १८.
अभवत्तस्य तज्ज्ञात्वा सुरेंद्रो ह्यगमत्पुरा १८.
तत्सन्निधौ हताः सर्वे असुरा दैत्यशत्रुणा १८.
नारदेन पुरा राजन्किंचित्कार्यं चिकीर्षुणा दैत्येंद्रेण च तत्सर्वं तपसैव वशीकृतम्॥ १८.
तस्याः पुत्रो महातेजा येन नीतोऽभवत्सभाम् नाम्ना विरोचनो विद्वानिंद्रो येन महात्मना॥ १८.
दानेन तोषितो राजन्स्वेनैव शिरसा तदा १८.
यशोदीपेन महता दग्धाः शलभवत्सुराः १८.
श्रुतमस्ति मया सर्वं चरितं तव सुव्रत १८.
उटजार्थे च मे देहि भूमीं भूमिभृतांवर १८.
हे बटो पंडितो भूत्वा यदुक्तं वचनं पुरा १८.
वद शीघ्रं महाभाग कियन्मात्रां महीं तव १८.
तदाह वामनो वाक्यं स्मयन्मधुरया गिरा १८.
संतुष्टा ये हि विप्रास्ते नान्ये वेषधरा ह्यमी १८.
निर्मत्सरा जितकोधावदान्या हि महामते १८.
मनस्वी त्वं बहुत्वाच्च दातासि भुवनत्रये १८.
बहुत्वे नास्ति मे कार्यं मह्या वै सुरसूदन १८.
त्रिपदं पूर्यतेऽस्माकं वस्तुं नास्त्यत्र संशयः तावत्संख्या प्रदातव्या यदि दातासि भो बले॥ १८.