कलेवरं च तत्याज पतिलोकं गता ततः १८.
नाम्ना बलिरिति ख्यातो बभूव च महायशाः १८.
गतस्ते कथिताः पूर्वं कश्यपस्याश्रमं शुभम् १८.
स्वयं तताप तपसा सूर्यो भूत्वा तदाऽसुरः १८.
तथा च नैर्ऋतो भूत्वा तथा त्वंबुपतिः स्वयम् एवमास्ते बलिः साक्षात्स्वयमेव त्रिलोकभुक्॥ १८.
शिवार्चनरतेनैव कितवेन बलिर्द्विजाः १८.
एकदा तु सभामध्ये आस्थितो भृगुणा सह १८.
आवासः क्रियतामत्र क्रियतामत्र असुरैर्म्मम सन्निधौ १८.
भार्गवस्तदुपश्रुत्य प्रहस्येदमुवाच ह १८.
याज्ञिकैश्च महाराज नान्यथा स्वर्गमेव हि १८.
गुरोर्वचनमाज्ञाय दैत्येंद्रो वाक्यमब्रवीत् स्वर्गे वसंतु सुचिरं नात्र कार्या विचारणा॥ १८.
प्रहस्यो वाच भगवान्भार्गवाणां महातपाः १८.
यत्त्वयोक्तं च वचनं बले मम न रोचते १८.
अश्वमेधशतेनैव यज त्वं जातवेदसम् १८.
तथेति मत्वा स बलिर्महात्मा हित्वा तदानीं त्रिदिवं मनस्वी १८.
तन्नर्मदाया गुरुकुल्यसंज्ञकं तीरे महातीर्थमुदारशोभम् १८.
ततोऽश्वमेधैर्बहुभिर्विचक्षणो गुरुप्रयुक्तः स महायशाबलिः १८.
कृत्वा ब्राह्मणमाचार्यमृत्विजः षोडशाऽभवन् १८.
यज्ञानामूनमेकेन शतं दीक्षापरेण हि १८.
यावद्यज्ञशतं पूर्णं तस्य राज्ञो भविष्यति १८.
व्रतेन तेन संतुष्टो भगवान्हरिरीश्वरः १८.
अदित्याः कश्यपेनैव उपनीतस्तदा प्रभुः १८.
दत्तं यज्ञोपवीतं च ब्रह्मणा परमेष्ठिना १८.
मेखला च समानीता अजिनं च महाद्भुतम् १८.
तत्र भिक्षा समानीता भवान्या चार्थसिद्धये १८.
अभिवंद्य श्रीशो वामनो ह्दितिं तथा याज्ञिकस्य बलेराह च्छलनार्थं स्वयं प्रभुः॥ १८.
तदा महेशः स जगाम स्वर्गं प्रकंपयन्गां प्रपदा भरेण १८.
गीर्भिर्यथार्थाभिरभिष्टुतो जनैर्मुनीश्वरैर्देवगणैर्महात्मा १८.
उद्गापयन्साम यतो हि साक्षाच्चकार देवो बटुरूपवेषः १८.
ददर्श तं महायज्ञमश्वमेधं बलेस्तदा १८.