सुरुचिर्जननी तस्य कितवस्याभवत्तदा तस्थौ जठरमास्थाय तस्याः सोऽपि महात्मनः॥ १८.
तदाप्रभृति तस्यैव प्रह्लादस्यात्मजात्स वै १८.
तेनैव जठरस्थेन कृता मतिरनुत्तमा १८.
एकदा वै तदा शक्रो ययौ वैरोचनं प्रति १८.
विरोचनगृहं प्राप्त इंद्रो वाक्यमुवाच ह मनस्वी त्वं च दैत्येंद्र दाता च भुवनत्रये॥ १८.
तव विप्रा महाभाग चरितं परमाद्भुतम् याचकोऽहं च दैत्येंद्र दातुरर्महसि सुव्रत॥ १८.
तस्य तद्वचनं श्रुत्वा दैत्येंद्रो वाक्यमब्रवीत् १८.
इंद्रो हि विप्ररूपेण विरोचनमुवाच ह १८.
आत्मप्रीत्या च दातव्यं मम नास्त्यत्र संशयः १८.
ददाम्यात्मशिरो विप्र यदि कामयसेऽधुना अहं समर्पयिष्यामि तव नास्त्यत्र सशयः॥ १८.
इत्युक्तस्तेन दैत्येन विमृश्य च तदा हरिः १८.
एवमुक्ते तु वचने शक्रेण द्विजरूपिणा स्वकरेण ददौ तस्मै प्रह्लादस्यात्मजोऽसुरः॥ १८.
प्रह्लादेन पुरा यस्तु कृतो धर्म्मः सुदुष्करः १८.
दानात्परतरं चान्यत्क्वचिद्वस्तु न विद्यते १८.
स्वशक्त्या यच्च किंचिच्च तदानंत्याय कल्पते १८.
सात्त्विकं राजसं चैव तामसं च प्रकीर्तिततम् १८.
शिर उत्कृत्त्य चेंद्राय प्रदत्तं विप्ररूपिणे १८.
ऐकपद्येन पतितास्ते जाता मंडलाय वै १८.
विरोचनस्य तद्दानं त्रिषु लोकेषु विश्रुतम् १८.
विरोचनस्य पुत्रोऽभूत्कितवोऽसौ महाप्रभः १८.
कलेवरं च तत्याज पतिलोकं गता ततः १८.
नाम्ना बलिरिति ख्यातो बभूव च महायशाः १८.
गतस्ते कथिताः पूर्वं कश्यपस्याश्रमं शुभम् १८.
स्वयं तताप तपसा सूर्यो भूत्वा तदाऽसुरः १८.
तथा च नैर्ऋतो भूत्वा तथा त्वंबुपतिः स्वयम् एवमास्ते बलिः साक्षात्स्वयमेव त्रिलोकभुक्॥ १८.
शिवार्चनरतेनैव कितवेन बलिर्द्विजाः १८.
एकदा तु सभामध्ये आस्थितो भृगुणा सह १८.
आवासः क्रियतामत्र क्रियतामत्र असुरैर्म्मम सन्निधौ १८.
भार्गवस्तदुपश्रुत्य प्रहस्येदमुवाच ह १८.
याज्ञिकैश्च महाराज नान्यथा स्वर्गमेव हि १८.