बृहस्पतिमुवाचेदं वाक्यं वाक्यविदां वरः १८.
पारिजातादयः सर्वे पदार्थाः केन वा हृताः १८.
ऋषिभ्यो दत्त मद्यैव यावत्सत्ता हि तस्य वै १८.
अप्रमात्ताश्च ये नित्यं शिवध्यानपरायणाः केवलं ज्ञानमाश्रित्य ते यांति परमं पदम्॥ १८.
एतच्छ्रुत्वा वचनं तस्य चेंद्रो बृहस्पतेर्वाक्यमिदं वभाषे १८.
तथेति मत्वा गुरुणा सहैव राजा सुराणां सहसा जगाम १८.
यमेन पूज्यमानो हि शक्रो वाक्यमुवाच ह १८.
अनेनैतत्कृतं कर्म्म जुगुप्सितं महत्तरम् एभ्य एभ्यः प्रदत्तानि धर्म्म जानीहि तत्त्वतः॥ १८.
त्वं धर्मनामासि कथं कितवाय प्रदत्तवान् १८.
आनयस्व महाभाग गजादीनि च सत्वरम् १८.
निशम्य वाक्यं शक्रस्य यमो वचनमब्रवीत् १८.
भोगार्थं चैव यद्दत्तं शक्रराज्यं त्वयाऽधुन् १८.
अकार्यं वै त्वया मूढ परद्रव्यापहारणम् १८.
यमस्य वचनं श्रुत्वा कितवो वाक्यमब्रवीत् १८.
यावत्स्वता मम विभो जाता शक्रासने तथा १८.
दानं प्रशस्तं भूम्यां च दृश्यते कर्म्मणः फलम् तस्माद्दंड्योऽसि रे मूढ अशास्त्रीयं कृतं त्वया॥ १८.
गुरुरात्मवतां शास्ता राजा शास्ताः दुरात्मनाम् १८.
एवं निर्भर्त्सयित्वा तं कितवं धर्मराट्स्वयम् तदा प्रहस्य चोवाच चित्रगुप्तो यमं प्रति॥ १८.
कथं निरयगामित्वं कितवस्य भविष्यति १८.
तथाश्वो ह्यब्धिसंभूतो गालवाय महात्मने १८.
एवमादीनि रत्नानि दत्तानि कितेवन हि १८.
शिवमुद्दिश्य यदत्तं स्वर्गे मर्त्ये च यैर्नरैः तस्मान्नरकगामित्वं कितवस्य न विद्यते॥ १८.
यानियानि च पापानि कितवस्य महात्मनः १८.
शंभोः प्रसादात्सर्वाणि सुकृतानि च तत्क्षणात् १८.
प्रहस्यावाङ्मुखो भूत्वा इद माह शतक्रतुम् १८.
अश्वमेधशतेनैव एकं जन्मार्जितं कृतम् १८.
प्रार्थयित्वा ह्यगस्त्यादीन्मुनीन्सर्वान्विशेषतः गजादिकानि रत्नानि येन त्वं च सुखी त्वरन्॥ १८.
तथेति मत्वा वचनं पुरंदरो गतः पुरीं स्वामविवेकदृष्टिः १८.
अनेनैव प्रकारेण लब्धराज्यः पुरंदरः १८.
कितवस्य पुनर्जन्म दत्तं वैवस्वतेन हि १८.