देवीसिंहश्चपेटेन ताडयामास पाणिना
अथ व्याघ्रतया प्राप्तः स्फुटव्यात्ताननो महान्
दीर्घाभिर्न्नीलरेखाभिः पूर्णः पिंगलविग्रहः
मृगैरिव परित्रातुं मुच्यमानोऽग्रतो बली
आगच्छंतं रयाद्देवी भल्लेन शशिवर्चसा 1.3.1.11.
स बाणस्तन्मुखे मग्नस्तद्रक्तेन समुक्षितः
स दैत्यो वारणो भूत्वा देवीमाश्वभ्युपागमत्
तं गजेंद्रं समायांतं मदक्लिन्नमहीतलम्
अथ खड्गधरो वीरश्चर्मपाणिः समुद्गतः
देवी च विलसत्खड्गचक्रचक्रलसत्करा
भूयः स माहिषं रूपमास्थायासुरमायया
अथ देवैमुनींद्रैश्च चोदितो गौतमो मुनिः
त्वयि सर्वस्य जगतः प्राणशक्तिः परा मता
किमेतदद्य मोहाय युद्धमारभ्यते त्वया
भिन्नानामस्य देहानामुपसंहरणात्तव 1.3.1.11.
अन्यथा तृणकल्पस्य शत्रोरस्य निबर्हणे
स्वशक्तिमवसंस्तभ्य समाकर्षयतां रिपोः
इति स्म बोधितातेन पुरा भगवती तदा
अनेकगिरिसंकाशं देव्या विग्रहमात्मनः
निष्पिष्टो विलुठन्क्रोशन्नाक्रांतश्च परिस्फुरन्
त्रिशूलमुखभिन्नांगरक्तधारासमुद्धतः
अथ खड्गेन तीक्ष्णेन कर्तयित्वा च तच्छिरः
दुर्गां सिद्धाश्च गन्धर्वाः प्रशशंसुर्महर्षयः प्रणतः प्रांजलिर्देवीं तुष्टाव विबुधाधिपः
भक्तिः श्रद्धा च भजतां शक्तिश्चासि त्वमंबिके 1.3.1.11.
एकैव विश्वरूपा त्वं नामभेदेर्निगद्यसे
नियुज्य शत्रुं निर्भिद्य शिवा ज्ञेया प्रकाशसे
छिन्नमेतस्य तु शिरः सजीवमिव लक्ष्यते
आक्रम्य तव तिष्ठन्त्या रूपमेव सदास्तु नः
शूलघण्टांकुशकशाकपालकुलिशादिभिः
आपूरिता त्वमेवांब सर्वशत्रून्निहंसि नः