गुरोर्वचनमार्कर्ण्य कृत्वा शिरसि तत्क्षणात् भवनं देवराजस्य नानाश्चर्यसमन्वितम्॥ १८.
शक्रासनेऽभिषिक्तोऽसौ राज्यं प्राप्तः शतक्रतोः १८.
किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने १८.
शिवसायुज्यमायाताः शिवसेनासमन्विताः १८.
शिवपूजारतानां च यत्सुखं शांतचेतसाम् १८.
वराकास्ते न जानंति मूढा विषयलोलुपाः १८.
पूजनीयो महादेवः प्राणिभिस्तत्त्ववेदिभिः १८.
पुरोधसाभिषिक्तोऽसौ पुरंदरपदे स्थितः १८.
इन्द्राणीमानयस्त्वेति यथा राज्यं सुशोभितम् १८.
इन्द्राण्या नास्ति मे कार्यं न वाच्यं ते महामते १८.
ऐरावतमगस्त्याय प्रददौ शिववल्लभः १८.
उच्चैःश्रवससंज्ञं च कामधेनुं महायशाः १८.
गालवाय महातेजास्तदा कल्पतरुं च सः १८.७९ एवमादीन्यनेकानि रत्नानि विविधानि च १८.
घटितकात्रितयं यावत्तावत्कालं ददौ प्रभुः १८.
पुरंदरोऽमरावत्यामुपविश्य निजासने १८.
शचीमुवाच दुर्मेधाः कितवेनासि भामिनि १८.
तदा प्रहस्य चोवाच पुरंदरमकल्मषा १८.
असौ महात्मा कितवस्वरूपी शिवप्रसादात्परमार्थविज्ञः १८.
राज्यादिकं मोहमयं च पाशं त्यक्ता परेभ्यो विजयी स जातः॥ १८.
वचो निशम्य देवेश इंद्राण्याः स पुरंदरः १८.
बृहस्पतिमुवाचेदं वाक्यं वाक्यविदां वरः १८.
पारिजातादयः सर्वे पदार्थाः केन वा हृताः १८.
ऋषिभ्यो दत्त मद्यैव यावत्सत्ता हि तस्य वै १८.
अप्रमात्ताश्च ये नित्यं शिवध्यानपरायणाः केवलं ज्ञानमाश्रित्य ते यांति परमं पदम्॥ १८.
एतच्छ्रुत्वा वचनं तस्य चेंद्रो बृहस्पतेर्वाक्यमिदं वभाषे १८.
तथेति मत्वा गुरुणा सहैव राजा सुराणां सहसा जगाम १८.
यमेन पूज्यमानो हि शक्रो वाक्यमुवाच ह १८.
अनेनैतत्कृतं कर्म्म जुगुप्सितं महत्तरम् एभ्य एभ्यः प्रदत्तानि धर्म्म जानीहि तत्त्वतः॥ १८.
त्वं धर्मनामासि कथं कितवाय प्रदत्तवान् १८.
आनयस्व महाभाग गजादीनि च सत्वरम् १८.