तदा ते ह्यसुराः सर्वे बलिप्रभृतयो दिवि १८.
न विदुर्ह्यसुराः सर्वे गतान्देवांस्त्रिविष्टपात् १८.
प्राकारमारुह्य तदा हि संभ्रमाद्दैत्याः सुरेशं प्रति हंतुकामाः १८.
इंद्रासने च शुक्रेण ह्यभिषिक्तो बलिस्तदा १८.
तथैवाधिष्ठितो राज्ये बलिर्वैरोचनो महान् १८.
नागैश्चासुरसंघैश्च सेव्यमानो महेंद्रवत् १८.
दानैर्द्दाता च सर्वेषां येऽन्ये दानित्वमागताः १८.
यान्यान्कामयते कामां स्तान्सर्वान्वितरत्यसौ १८.
देवेंद्रो हि महाभाग न ददाति कदाचन १८.
यत्नतो येन यत्किंचित्क्रियते सुकृतं नरैः १८.
शक्रो हि याज्ञिको विप्रा अश्वमेधशतेन वै १८.
अर्थितं तत्फलं विद्धि पुनः कार्पण्यमाविशत् १८.
य इंद्र कृमिरेव स्यात्कृमिरिंद्रो हि जायते १८.
दानाद्धि प्राप्यते ज्ञानं ज्ञानान्मोक्षो न संशयः १८.
ददाति सर्वं सर्वेशः प्रसन्नात्मा सदाशिवः १८.
अत्रैवोदाहरंतीममितिहासं पुरातनम् १८.
कितवो हि महापापो देवब्राह्मणनिंदकः १८.
एकदा तु महापापात्कैतावाच्च जितं धनम् १८.
कौपीनमात्रं तस्यैव कितवस्य प्रदृश्यते १८.
गणिकार्थमुपादाय धावमानो गृहं प्रति १८.
पतनान्मूर्छया युक्तः क्षणमात्रं तदाऽभवत् १८.
बुद्धिः सद्यः समुत्पन्ना कर्मणा प्राक्तनेन हि १८.
भूम्यां निपतितं यच्च गंधपुष्पादिकं महत् १८.
चित्रगुप्तेन चाख्यातं दत्तमस्ति त्वया पुनः १८.
पचनीयोसि मे मंद नरकेषु महत्सु च १८.
पापाचारो हि भगवन्कश्चिन्नैव मया कृतः १८.
चित्रगुप्तेन चाख्यातं द्त्तमस्ति त्वया पुनः १८.
तेन कर्मविपाकेन घटिकात्रयमेव च १८.
आगतस्तत्क्षणाद्देवः सुर्वैः समन्वितः शक्रः प्रबोधितस्तेन गुरुणा भावितात्मना॥ १८.
घटिकात्रितयं यावत्तावत्कालं पुरंदर १८.