अदितिं मातरं सर्वे शशंसुर्दैत्यचेष्टितम्॥ १८.
अप्रियं तदुपाकर्ण्य ह्यदितिः पुत्रलालसा महर्षे श्रयतां वाक्यं श्रुत्वा तत्कर्तुमर्हसि॥ १८.
दैत्यैः पराजिता देवा हित्वा चैवामरावतीम् १८.
तस्यास्तद्वचनं श्रुत्वा कश्यपो वाक्यमब्रवीत् अजेया ह्यसुराः साध्वि भृगुणा ह्यनुमोदिताः॥ १८.
तेषां जयो हि तपसा उग्रेणाऽऽद्येन भामिनि १८.
व्रतमेतन्महाभागे कथयाम्यर्थसिद्धये १८.
मासि भाद्रपदे देवि दशम्यां नियता शुचिः १८.
प्रर्थनीयो हरिः साक्षात्सर्वकामवरेश्वरः १८.
तव भक्तोस्म्यहं नाथ दशम्यादिदिनत्रयम् १८.
अनेनैव च मंत्रेण प्रार्थनीयो जगत्पतिः १८.
रंभापत्रे च भोक्तव्यं वर्जितं लवणेन हि १८.
रात्रौ जागरणं कुर्यात्प्रयत्नेन सुमध्यमे कर्तव्या ज्ञातिभिः सार्द्धं भोजयित्वा द्विजीत्तमान्॥ १८.
एवं द्वादशमासांस्तु कुर्याद्व्रतमतंद्रितः विष्णुमभ्यर्च्य यत्नेन कलशोपरि संस्थितम्॥ १८.
सौवर्णं राजतं वापि यताशक्त्या प्रकल्पयेत् व्रती उपवसेद्यत्नात्सर्वदोषप्रशांतये॥ १८.
एवं हि कश्यपेनोक्तं श्रुत्वाऽदितिरथाचरत् १८.
वर्षांतेन व्रतेनैव परितुष्टो जनार्दनः १८.
बटुरूपधरः श्रीशो द्विभुजः कमलेक्षमः १८.
तं दृष्ट्वा विस्मयाविष्टा पूजामध्येऽदितिस्तदा १८.
नमोनमः कारणकारणाय ते विश्वात्मने विश्वसृजे चिदात्मने १८.
इति स्मृतस्तदाऽदित्या देवानां परिरच्युतः १८.
तपसा परमेणैव प्रसन्नोहं तवानघे १८.
श्रुत्वा भगवतो वाक्यमदितिस्तमुवाचह तान्रक्ष शरणापन्नासुरान्सर्वाञ्जनार्दन॥ १८.
निशम्य वाक्यं किल तच्च तस्या विष्णुर्विकुंठाधिपतिः स एकः १८.
किं कार्यमद्यैव मया हि कार्यं येनैव देवा जयमाप्नुवंति १८.
गदमुवाच भगवान्गच्छस्वाद्य वधं प्रति १८.
गदोवाच हृषीकेशं प्रहसन्तीव भामिनी १८.
चक्रं प्रति तदा विष्मुरुवाच परिसांत्वयन् १८.
तदोवाच त्वरेणैव चक्रपाणिं सुदर्शनम् १८.
ब्रह्मण्योऽसि यथा विष्णो तथासौ दैत्यपुंगवः चिंतयामास बहुधा विमृश्य सुचिरं बहु॥ १८.
तदा ते ह्यसुराः सर्वे किमकुर्वस्तदुच्यताम्॥ १८.