किं कुर्मोऽद्य महाभाग आगता दैत्यपुंगवाः १७.
तेषां तद्वचनं श्रुत्वा बृहस्पतिरभाषत॥ १७.
एते घृतमुखा घोरा भृगुणानोदिताः सुराः १७.
एतन्निशम्य वचनं च गुणाभियुक्तं सर्वे सुराः समभवंस्त्रपयाभियुक्ताः १७.
कर्मणा परिभूतो हि महेंद्रो गुरुमब्रवीत् १८.
बृहस्पतिरुवाचेदं त्यक्त्वा चैवामरावतीम् १८.
तथा चक्रुः सुराः सर्वे हित्वा चैवामरावतीम् १८.
काको भूत्वा यमः साक्षात्कृकलासो धनाधिपः १८.
नैर्ऋतस्तत्क्षणादेव कपोतोऽभूत्ततो गतः १८.
एवं नानातनुभृतो हित्वा ते त्रिदिवं गताः १८.
अदितिं मातरं सर्वे शशंसुर्दैत्यचेष्टितम्॥ १८.
अप्रियं तदुपाकर्ण्य ह्यदितिः पुत्रलालसा महर्षे श्रयतां वाक्यं श्रुत्वा तत्कर्तुमर्हसि॥ १८.
दैत्यैः पराजिता देवा हित्वा चैवामरावतीम् १८.
तस्यास्तद्वचनं श्रुत्वा कश्यपो वाक्यमब्रवीत् अजेया ह्यसुराः साध्वि भृगुणा ह्यनुमोदिताः॥ १८.
तेषां जयो हि तपसा उग्रेणाऽऽद्येन भामिनि १८.
व्रतमेतन्महाभागे कथयाम्यर्थसिद्धये १८.
मासि भाद्रपदे देवि दशम्यां नियता शुचिः १८.
प्रर्थनीयो हरिः साक्षात्सर्वकामवरेश्वरः १८.
तव भक्तोस्म्यहं नाथ दशम्यादिदिनत्रयम् १८.
अनेनैव च मंत्रेण प्रार्थनीयो जगत्पतिः १८.
रंभापत्रे च भोक्तव्यं वर्जितं लवणेन हि १८.
रात्रौ जागरणं कुर्यात्प्रयत्नेन सुमध्यमे कर्तव्या ज्ञातिभिः सार्द्धं भोजयित्वा द्विजीत्तमान्॥ १८.
एवं द्वादशमासांस्तु कुर्याद्व्रतमतंद्रितः विष्णुमभ्यर्च्य यत्नेन कलशोपरि संस्थितम्॥ १८.
सौवर्णं राजतं वापि यताशक्त्या प्रकल्पयेत् व्रती उपवसेद्यत्नात्सर्वदोषप्रशांतये॥ १८.
एवं हि कश्यपेनोक्तं श्रुत्वाऽदितिरथाचरत् १८.
वर्षांतेन व्रतेनैव परितुष्टो जनार्दनः १८.
बटुरूपधरः श्रीशो द्विभुजः कमलेक्षमः १८.
तं दृष्ट्वा विस्मयाविष्टा पूजामध्येऽदितिस्तदा १८.
नमोनमः कारणकारणाय ते विश्वात्मने विश्वसृजे चिदात्मने १८.
इति स्मृतस्तदाऽदित्या देवानां परिरच्युतः १८.