एकपद्येन सर्वेषां महाहर्षो दिवौकसाम् तदा शची समायाता यत्र मुक्तः पुरंदरः॥ १७.
तत्र शच्या समेतोऽसावभिषिक्तो महर्षिभिः १७.
एवं तदाभिषिक्तोऽसौ महेंद्र ऋषिभिः पुनः १७.
दिशः प्रसन्नतां याता निर्मलं चाभवन्नभः १७.
एवमादीन्यनेकानि मंगलानि ततोऽभवन् १७.
एवं प्रवर्तमाने तु महतां च महोत्सवे १७.
तत्रैव ब्रह्महत्या च पापिष्ठा पतिता भुवि १७.
पुण्यभूमिरिति ख्याता प्रसिद्धा लोकपावनी १७.
मलस्य बहुसंभूत्या मालावेति प्रकीर्तिता १७.
षण्मासेष्वपतत्सर्वैः कृत्तं देवैः सवासवैः १७.
इंद्रासने चोपविष्टो निरातंकः शचीपतिः शशंसुः सर्वमागत्य शक्रस्य च विचेष्टितम्॥ १७.
तेषां तद्वचनं श्रुत्वा वैरोचनी रुषान्वितः १७.
तेनोक्तं बलये राजञ्जयस्यन्दनलब्धये १७.
तेनोक्तो भृगुणा चैवं बलिर्यज्ञार्थमुद्यतः मेलयित्वा त्वरेणैव वैरोचनिरुदारधीः॥ १७.
प्रवर्तितो महायज्ञो भार्गवेण महात्मना १७.
हूयमाने तदाग्नौ तु कर्मणा विधिहेतुना १७.
हयैश्चतुर्भिः संयुक्तो ध्वजेसिंहो महाप्रभः १७.
ततश्चावभृथस्नानं चक्रे शुक्रप्रणोदितः १७.
दैत्यैः परिवृतः सद्यो योद्धुकामः पुरंदरम् १७.
आगत्य सेनया सार्द्धमारुरो हामरावतीम् विर्शयित्वा सुचिरमूचुः सर्वे बृहस्पतिम्॥ १७.
किं कुर्मोऽद्य महाभाग आगता दैत्यपुंगवाः १७.
तेषां तद्वचनं श्रुत्वा बृहस्पतिरभाषत॥ १७.
एते घृतमुखा घोरा भृगुणानोदिताः सुराः १७.
एतन्निशम्य वचनं च गुणाभियुक्तं सर्वे सुराः समभवंस्त्रपयाभियुक्ताः १७.
कर्मणा परिभूतो हि महेंद्रो गुरुमब्रवीत् १८.
बृहस्पतिरुवाचेदं त्यक्त्वा चैवामरावतीम् १८.
तथा चक्रुः सुराः सर्वे हित्वा चैवामरावतीम् १८.
काको भूत्वा यमः साक्षात्कृकलासो धनाधिपः १८.
नैर्ऋतस्तत्क्षणादेव कपोतोऽभूत्ततो गतः १८.
एवं नानातनुभृतो हित्वा ते त्रिदिवं गताः १८.