आशरीरं च तद्वाक्यं श्रुत्वा ब्रह्मादयः सुराः १७.
कथमर्चामहे लिंगं केनैव विधिना ततः १७.
कानि पुष्पाणि सायाह्ने मध्याह्ने च तथैव हि १७.
तदा नभोगता वाणी कथयामास विस्तरम्॥ १७.
करवीरं चार्कपुष्पं बृहतीपुष्पमेवच १७.
आरग्वधं च पुन्नागं बकुलं नागकेशरम् १७.
बहूनि वरपुष्पाणि बहूनि कमलान्यपि १७.
जातीपुष्पं मल्लिकायाश्च पुष्पं पुष्पं मोगरकं नीलपुष्पं तथैव १७.
एतान्येव य पुष्पाणि मध्याह्ने लिंगपूजने १७.
चं पकानि त्रिकाले च पवित्राणि न संशयः १७.
एवमर्च्चनभेदांश्च ज्ञात्वा तल्लिंगपूजने १७.
वृषभांतरितो भूत्वा पीठिकांतरमेव च १७.
तथा ह्यनेन शक्रेण कृतं चैव प्रदक्षिणम् १७.
ग्रसितोऽद्यैव वृत्रेण सगजो हि पुरंदरः १७.
महारुद्रविधानेन मुक्तो भवति तत्क्षणात् १७.
तेनैव वचसा देवा रुद्रमभ्यर्च्य यत्नतः १७.
तथा चैकादशीरुद्र्या रुद्रमभ्यर्च्य वै सुराः १७.
जपं च पूजां हवनं च चक्रुर्विमोक्तुकामाः सहसा पुरंदरम् १७.
तं निर्गतं समीक्ष्याथ देवदेवेंद्रमोजसा श्रिया परमया युक्तं पुरंदरं महौजसम्॥ १७.
देवदुंदुभयो नेदुस्तथा शंखा ह्यनेकशः १७.
एकपद्येन सर्वेषां महाहर्षो दिवौकसाम् तदा शची समायाता यत्र मुक्तः पुरंदरः॥ १७.
तत्र शच्या समेतोऽसावभिषिक्तो महर्षिभिः १७.
एवं तदाभिषिक्तोऽसौ महेंद्र ऋषिभिः पुनः १७.
दिशः प्रसन्नतां याता निर्मलं चाभवन्नभः १७.
एवमादीन्यनेकानि मंगलानि ततोऽभवन् १७.
एवं प्रवर्तमाने तु महतां च महोत्सवे १७.
तत्रैव ब्रह्महत्या च पापिष्ठा पतिता भुवि १७.
पुण्यभूमिरिति ख्याता प्रसिद्धा लोकपावनी १७.
मलस्य बहुसंभूत्या मालावेति प्रकीर्तिता १७.
षण्मासेष्वपतत्सर्वैः कृत्तं देवैः सवासवैः १७.