तिमिरेणावृतं सर्वं जगत्स्थावरजंगमम् १७.
विध्यमानास्तदा सर्वे देवा ब्रह्माण मागताः १७.
तच्छ्रुत्वा भगवान्ब्रह्मा व्यथितोऽतीव विस्मितः १७.
देवैः सह तदा ब्रह्मा सर्वलोकपितामहः १७.
ॐनमो लिंगरूपाय महादेवाय वै नमः १७.
त्राहित्राहि त्रिलोकेश वृत्रग्रस्तं पुरंदरम् १७.
उवाच हितकामाय विधिं लिंगार्चने सती १७.
निर्माल्यं पीठिकां चैव च्छायाप्रासादमेव च १७.
लंघयंति च ये मूढास्ते वै दंड्या न संशयः प्रदक्षिणानमस्कारौ लिंगार्च्चनसमन्वितः॥ १७.
श्रेयःप्राप्तयेकबुद्ध्या वै प्रयत्नाल्लिंगपूजनम् १७.
आशरीरं च तद्वाक्यं श्रुत्वा ब्रह्मादयः सुराः १७.
कथमर्चामहे लिंगं केनैव विधिना ततः १७.
कानि पुष्पाणि सायाह्ने मध्याह्ने च तथैव हि १७.
तदा नभोगता वाणी कथयामास विस्तरम्॥ १७.
करवीरं चार्कपुष्पं बृहतीपुष्पमेवच १७.
आरग्वधं च पुन्नागं बकुलं नागकेशरम् १७.
बहूनि वरपुष्पाणि बहूनि कमलान्यपि १७.
जातीपुष्पं मल्लिकायाश्च पुष्पं पुष्पं मोगरकं नीलपुष्पं तथैव १७.
एतान्येव य पुष्पाणि मध्याह्ने लिंगपूजने १७.
चं पकानि त्रिकाले च पवित्राणि न संशयः १७.
एवमर्च्चनभेदांश्च ज्ञात्वा तल्लिंगपूजने १७.
वृषभांतरितो भूत्वा पीठिकांतरमेव च १७.
तथा ह्यनेन शक्रेण कृतं चैव प्रदक्षिणम् १७.
ग्रसितोऽद्यैव वृत्रेण सगजो हि पुरंदरः १७.
महारुद्रविधानेन मुक्तो भवति तत्क्षणात् १७.
तेनैव वचसा देवा रुद्रमभ्यर्च्य यत्नतः १७.
तथा चैकादशीरुद्र्या रुद्रमभ्यर्च्य वै सुराः १७.
जपं च पूजां हवनं च चक्रुर्विमोक्तुकामाः सहसा पुरंदरम् १७.
तं निर्गतं समीक्ष्याथ देवदेवेंद्रमोजसा श्रिया परमया युक्तं पुरंदरं महौजसम्॥ १७.
देवदुंदुभयो नेदुस्तथा शंखा ह्यनेकशः १७.