तं चिंत्यमानं स तदा पुरंदरं वृत्रो बभाषे परिभर्त्समानः येनैव जातोऽसि सहस्रनेत्रः शापान्महर्षेरथ गौतमस्य॥ १७.
ये शूराश्चेंद्रियग्रामं वर्तंते हि नियम्य तु १७.
रणाजिरं महाघोरं पापिनां नात्र संशयः॥ १७.
एवं निर्भर्त्सयामास देवेंद्रं दैत्यपुंगवः १७.
तेन शूलेन महता वृत्रोऽद्भुतपराक्रमः १७.
तथाभूतं समालक्ष्य देवराजः शतक्रतुः १७.
तमायांतमभिप्रेक्ष्य हंतुकामं पुरंदरम् मुखं प्रसार्य सुमहदागतो हि पुरंदरम्॥ १७.
ग्रस्तुकामो महातेजा दैत्यानामधिपस्तदा १७.
सवज्रं सकिरीटं च ननर्त च जगर्ज्ज च १७.
हाहाकारो महानासीद्देवानां तत्र पश्यताम् १७.
तिमिरेणावृतं सर्वं जगत्स्थावरजंगमम् १७.
विध्यमानास्तदा सर्वे देवा ब्रह्माण मागताः १७.
तच्छ्रुत्वा भगवान्ब्रह्मा व्यथितोऽतीव विस्मितः १७.
देवैः सह तदा ब्रह्मा सर्वलोकपितामहः १७.
ॐनमो लिंगरूपाय महादेवाय वै नमः १७.
त्राहित्राहि त्रिलोकेश वृत्रग्रस्तं पुरंदरम् १७.
उवाच हितकामाय विधिं लिंगार्चने सती १७.
निर्माल्यं पीठिकां चैव च्छायाप्रासादमेव च १७.
लंघयंति च ये मूढास्ते वै दंड्या न संशयः प्रदक्षिणानमस्कारौ लिंगार्च्चनसमन्वितः॥ १७.
श्रेयःप्राप्तयेकबुद्ध्या वै प्रयत्नाल्लिंगपूजनम् १७.
आशरीरं च तद्वाक्यं श्रुत्वा ब्रह्मादयः सुराः १७.
कथमर्चामहे लिंगं केनैव विधिना ततः १७.
कानि पुष्पाणि सायाह्ने मध्याह्ने च तथैव हि १७.
तदा नभोगता वाणी कथयामास विस्तरम्॥ १७.
करवीरं चार्कपुष्पं बृहतीपुष्पमेवच १७.
आरग्वधं च पुन्नागं बकुलं नागकेशरम् १७.
बहूनि वरपुष्पाणि बहूनि कमलान्यपि १७.
जातीपुष्पं मल्लिकायाश्च पुष्पं पुष्पं मोगरकं नीलपुष्पं तथैव १७.
एतान्येव य पुष्पाणि मध्याह्ने लिंगपूजने १७.
चं पकानि त्रिकाले च पवित्राणि न संशयः १७.