अस्य शापः पुरा दत्तः पार्वत्या मम सन्निधौ १७.
पर्यटन्सु विमानेन मया दत्तेन भास्वता १७.
तस्मादजेयं जानीहि रणे रणविदां वर १७.
तथेति मत्वा शक्रोऽसौ नियमं तमुपाददे॥ १७.
रंध्रं प्रतीक्ष्य वृत्रस्य तत्समीपे सहस्रकम् १७.
अंतर्वेद्यां बहिः स्थित्वा वज्रपाणिरनुज्ञया १७.
एकदा नर्म्मदायां वै वृत्रो दानवपुंगवः १७.
इंद्रः पराभवं प्राप्तो नीतो देवैर्द्दिवं प्रति १७.
मन्यमानः सदा वृत्रः पौरुषेण समन्वितः १७.
दृष्टश्चेंद्रेण सुमहानसुरैः परिवारितः १७.
तस्मिन्प्रदेषे संयुक्ता मंदवारे त्रयोदशी १७.
प्रदक्षिणानमस्कारैर्यथोक्तविधिना तदा १७.
प्रदोषव्रतमाहात्म्याद्वज्रपाणिः प्रतापवान् १७.
वृत्रोपि तपसा युक्तः प्रदोषसमये महान् १७.
स्वापात्प्रदोषवेलायां तपसा चार्जितं फलम् १७.
देव्याः शापाच्च संजातो वृत्रो भग्नमनोरथः॥ १७.
संध्यापादो गतो यावद्धृत्र स्तीर्थमुपाविशत् १७.
तस्य तत्कर्मणश्छिद्रं छिद्रान्वेषी शचीपतिः १७.
तावद्दैत्याः सुसंरब्धा भीमा भीमपराक्रमाः १७.
ततस्तैरभवद्युद्धमतिप्रबलदंडिभिः १७.
तदा दैत्याश्च देवाश्च युयुधुस्ते तरस्विनः १७.
अनेकशस्त्रसंवीतं महारौद्रमवर्तत तदा वृत्रोऽथ सन्नद्धो गृहीत्वा शूलमुल्बणम्॥ १७.
इंद्र प्रमुखतो भूत्वा जगर्जातिविभीषणम् १७.
ऐरावणं समारुह्य महेंद्रः शुशुभे तदा १७.
चामरैर्वीज्यमानोऽथ बभाषे दैत्यपुंगवम्॥ १७.
संग्रामं कुरु मे वृत्र बलेन महता वृतः १७.
एवमुक्तस्तदा तेन वृत्रो वाक्यमुवाच ह १७.
तथेति मत्वा तदतीव दुःसहं वज्रं तदानीं शतधारमेव पुरोधसा बुद्धिमतां वरेण तथेति मत्वा स चकार चेंद्रः॥ १७.
गदां प्रगृह्य देवेंद्रो वृत्रं विव्याध तां गदाम् १७.
व्यार्थां च स्वगदां दृष्ट्वा इंद्रश्चिंतामवाप ह॥ १७.