तेषां कथयतां शंखं गणानां योगिनीगणैः
आलोक्य तां तथारूपामापतंस्तस्य सैनिकाः
ववृषुः शस्त्रवर्षाणि दैत्याः प्रतिदिगन्तरम्
रथानां वारणेंद्राणां हयानां लक्षकोटिभिः
मातरो विविधाकारा डाकिन्यो योगिनीगणाः 1.3.1.10.
देव्या सृष्टेन सैन्येन दुर्जयेन महासुराः
देवी च सायुधा दृष्टा ज्वलंती निहतासुरैः
यदा कैलासशिखरात्प्राप्ता कर्त्तुं तपो भुवम्
दुंदुभिः सत्यवत्याख्या तथा चान्तवती परा
देव्या सृष्टा च चामुंडा दंष्ट्रावलयभीपणा
असुरं कंचिदाक्रम्य नटनं सा चकार ह
अथ तां समवेक्ष्य दुर्मदो हि ज्वलयामास च कोपवह्निना सः
ज्वलदग्निशिखाभदीर्घजिह्वापरिलीढोन्नतशैलशृंगभागः
अतिघर्घर दीर्घघोरनादस्फुटदंडभ्रममोहितामरो यः
मृतये व्यगमद्बलित्रयाढ्यां मृगराजस्थितिभासुरां भवानीम्।।1.3.1.10.
शैलवर्षेण महता कुपितः समपूरयत्
शरवर्षेण महता तन्निवार्य विदूरतः
भिद्यमानोऽपि दैत्येंद्रः शैलसारप्रदुर्धरः
भिद्यमानः स खड्गेन चक्रैरसिभिर्ऋष्टिभिः
ततः सिंहाकृतिर्भीमः प्रचंडनिनदाननः
देवीसिंहश्चपेटेन ताडयामास पाणिना
अथ व्याघ्रतया प्राप्तः स्फुटव्यात्ताननो महान्
दीर्घाभिर्न्नीलरेखाभिः पूर्णः पिंगलविग्रहः
मृगैरिव परित्रातुं मुच्यमानोऽग्रतो बली
आगच्छंतं रयाद्देवी भल्लेन शशिवर्चसा 1.3.1.11.
स बाणस्तन्मुखे मग्नस्तद्रक्तेन समुक्षितः
स दैत्यो वारणो भूत्वा देवीमाश्वभ्युपागमत्
तं गजेंद्रं समायांतं मदक्लिन्नमहीतलम्
अथ खड्गधरो वीरश्चर्मपाणिः समुद्गतः
देवी च विलसत्खड्गचक्रचक्रलसत्करा