किंबलार्थपरो भूत्वा विश्वरूपो हतस्त्वया १७.
ये दीर्घदर्शिनो मंदा मूढा धर्मबहिष्कृताः तत्सर्वं विद्धि देवेंद्र मनसा संप्रधार्यताम्॥ १७.
तस्माद्धर्म्मपरो भूत्वा युध्यस्व गतकल्मषः १७.
मा प्रयाहि स्थिरो भूत्वा देवैश्च परिवारितः ऐरावतं समारुह्य ययौ वृत्रजिघांसया॥ १७.
इंद्रमायांतमालोक्य वृत्रो बलवतां वरः १७.
आदौ मां प्रहरस्वेति तस्मात्त्वां घातयाम्यहम्॥ १७.
इत्येवमुक्तो देवेंद्रो जघान गदया भृशम् १७.
तामापतंतिं जग्राह करेणैकेन लीलया १७.
सा गदा पातयामास सवज्रं च पुरंदरम् १७.
नयध्वं स्वामिनं देवाः स्वपुरीममरावतीम्॥ १७.
एतच्छ्रुत्वा वचः सत्यं वृत्रस्य च महात्नः १७.
अपोवाह्य गजस्थं हि परिवार्य भयातुराः १७.
ततो गतेषु देवेषु ननर्त च महासुरः १७.
चचाल च मही सर्वा सशैलवनकानना १७.
श्रुत्वा प्रयातं देवेंद्रं ब्रह्मा लोकपितामहः अस्पृशल्लब्धसंज्ञोऽभूत्तत्क्षणाच्च पुरंदरः॥ १७.
दृष्ट्वा पितामहं चाग्रे व्रीडायुक्तोऽभवत्तदा १७.
वृत्रो हि तपसा युक्तो ब्रह्मचर्यव्रते स्थितः अजेयस्तपसोग्रेण तस्मात्त्वं तपसा जय॥ १७.
वृत्रासुरो दैत्यपतिश्च शक्र ते समाधिना परमेणैव जय्यः १७.
स्तुत्या तदातं स्तवमानो महात्मा पुरंदरो गुरुणा नोदितो हि॥ १७.
नमो भर्गाय देवाय देवानामतिदुर्गम १७.
एवं स्तितिपरो भूत्वा शचीपतिरुदारधीः १७.
प्रपंचाभिरता मूढाः शिवभक्तिपरा ह्यपि १७.
निर्मला निरहंकारा ये जनाः पर्युपासते १७.
तेषां परेषां वरद इहामुत्र च शंकरः १७.
रागिणां हि सदा शंभुर्दुर्लभो नात्र संशयः १७.
राजा सुराणां हि महानुरागी स्वकर्मसंसिद्धिमहाप्रवीणः १७.
स्तवमानं तदा चेंद्रमब्रवीत्कार्यगौरवात् १७.
इंद्र गच्छ सुरैः सार्द्धं वृत्रं वै दानवं प्रति १७.
केनोपायेन साध्योऽयं वृत्रो दैत्यवरो महान् १७.
रणे न शक्यते हंतुमपि देववरैरपि १७.