तस्मिन्सुतुमुले गाढे देवदैत्यक्षयावहे १७.
व्योमो यमेन युयुधे ह्यग्निना तीक्ष्णकोपनः १७.
द्वन्द्वयुद्ध रताः सर्वे अन्योन्यबलकांक्षिणः॥ १७.
तथैव ते देववरा महाभुजाः संग्रामशूरा जयिनस्तदाऽभवन् १७.
दृष्ट्वा सुरैर्दैत्यवरान्पराजितान्पलायमानानथ कान्दिशीकान् १७.
हे दैत्याः परमार्ताश्च कस्माद्यूयं भयातुराः १७.
स्वंस्वं पराक्रमं वीरा युद्धाय कृतनिश्चयाः १७.
गदाभिः पट्टिशैः खड्गैः शक्तितोमरमुद्गरैः १७.
तदा देवाश्च युयुधुर्दधीचास्थिसमुद्भवैः १७.
पुनर्दैत्या हता देवैः प्राप्तास्तेपि पराजयम् १७.
यदा हि ते दैत्यवराः सुरेशैर्निहन्यमानाश्च विदुद्रुवुर्दिशः १७.
वृत्रेण कोपिना चैवं धिक्कृता दैत्यपुंगवाः १७.
हे धूम्राक्ष महाकाल महादैत्य वृकासुर १७.
स्वर्गद्वारं विहायैव क्षत्रियाणां मनस्विनाम् १७.
संगरे मरणं येषां ते यांति परमं पदम् १७.
त्यजन्ति संगरं ये वै ते यांति निरयं ध्रुवम्॥ १७.
ये ब्राह्मणार्थे भृत्यार्थे स्वार्थे वै शस्त्रपाणयः १७.
शस्त्रघातहता ये वै मृता वा संगरे तथा १७.
शस्त्रैर्विच्छिन्नदेहा ये गवार्थे स्वामिकारणात् १७.
तस्माद्रणेऽपि ये शूराः पापिनो निहताः पुरः १७.
अथवा तीर्थगमनं वेदाध्ययनमेव च १७.
ऐकपद्येन तान्येव कलां नार्हंति षोडशीम् १७.
तस्माद्युद्धावदानं च कर्तव्यमविशंकितैः १७.
यूयं सर्वे शौरवृत्त्या समेताः कुलेन शीलेन महानुभावाः १७.
त एव सर्वे खलु पापलोकान्गच्छंति नूनं वचनात्स्मृतेश्च॥ १७.
ये पापिष्ठास्त्वधर्म्मस्था ब्रह्मघ्ना गुरुतल्पगाः १७.
तस्माद्भवद्भिर्योद्धव्यं स्वामिकार्यभरक्षमैः १७.
चक्रुस्ते वचंनं तस्य असुराश्च सुरान्प्रति १७.
तस्मिन्प्रवृत्ते तुमुले विगाढे वृत्रो महादैत्यपतिः स एकः १७.
श्रृणु वाक्यं मया चोक्तं धर्म्मार्थसहितं हितम् १७.