गोक्षीरस्नानं देवेश गोक्षीरेण मया कृतम् १७.
दध्ना चैव मया देव स्नपनं क्रियतेऽधुना १७.
सर्पिषा च मया देव स्नपनं क्रियतेऽधुना १७.
इदं मधु मया दत्तं तव प्रीत्यर्थमेव च १७.
सितया देवदेवेश स्नपनं क्रियतेऽधुना १७.
एवं पंचामृतेनैव स्नपनीयो वृषध्वजः अनेनैव च मंत्रेण उमाकांतस्य तृष्टये॥ १७.
अर्घ्योऽसि त्वमुमाकांत अर्घेणानेन वै प्रभो १७.
मया दत्तं च ते पाद्यं पुष्पगंधसमन्वितम् १७.
विष्टरं विष्टरेणैव मया दत्तं च वै प्रभो १७.
आचमनीयं मया दत्तं तव विश्वेश्वर प्रभो १७.
ब्रह्मग्रन्थिसमायुक्तं ब्रह्मकर्मप्रवर्तकम् १७.
सुगंधं चंदनं देव मया दत्तं च वै प्रभो १७.
दीपं हि परमं शंभो घृतप्रज्वलितं मया १७.
दीपं विशिष्टं परमं सर्वौषधिविजृंभितम् १७.
दीपावलिं मया दत्तां कृहाण परमेश्वर १७.
फलदीपादिनैवेद्यतांबूलादिक्रमेण च १७.
पश्चाज्जागरणं कार्यं गृहे वा देवतालये गीतवादित्रनृत्येन अर्चनीयः सदाशिवः॥ १७.
अनेनैव विधानेन प्रदोषोद्यापने विधिः १७.
गुरुणा कथितं सर्वं तच्चकार शतक्रतुः १७.
वृत्रं प्रति सुरैः सार्द्धं युयुधे च शतक्रतुः १७.
तस्मिन्सुतुमुले गाढे देवदैत्यक्षयावहे १७.
व्योमो यमेन युयुधे ह्यग्निना तीक्ष्णकोपनः १७.
द्वन्द्वयुद्ध रताः सर्वे अन्योन्यबलकांक्षिणः॥ १७.
तथैव ते देववरा महाभुजाः संग्रामशूरा जयिनस्तदाऽभवन् १७.
दृष्ट्वा सुरैर्दैत्यवरान्पराजितान्पलायमानानथ कान्दिशीकान् १७.
हे दैत्याः परमार्ताश्च कस्माद्यूयं भयातुराः १७.
स्वंस्वं पराक्रमं वीरा युद्धाय कृतनिश्चयाः १७.
गदाभिः पट्टिशैः खड्गैः शक्तितोमरमुद्गरैः १७.
तदा देवाश्च युयुधुर्दधीचास्थिसमुद्भवैः १७.
पुनर्दैत्या हता देवैः प्राप्तास्तेपि पराजयम् १७.