लिंगरूपाय लिंगाय लिंगानां पतये नमः १७.
नमोनमः कारणकारणाय ते मृत्युंजयायात्मभवस्वरूपिणे १७.
नाम्नां शतं महेशस्य उच्चार्यं व्रतिना तदा कार्यं प्रदोषसमये तुष्ट्यर्थं संकरस्य च॥ १७.
एवं व्रतं समुद्दिष्टं तव शक्र महामते १७.
शंभोः प्रसादात्सर्वं ते भविष्यति जयादिकम्॥ १७.
वृत्रो ह्ययं महातेजा दैतेयस्तपसा पुरा १७.
नाम्ना चित्ररथो राजा वनं चित्ररथस्य तत् १७.
यस्मिन्वने महाभाग न संति च षडूर्मयः तस्य राज्ञः शिवेनैव दत्तं यानं महाद्भुतम्॥ १७.
कामगं किंकिणीयुक्तं सिद्धचारणसेवितम् १७.
ततस्तेनैव यानेन पृथिवीं पर्यटन्पुरा १७.
एकदा पर्यटन्राजा नाम्ना चित्ररथो महान् १७.
सभातलं महेशस्य गणैश्चैव विराजितम् १७.
निरीक्ष्य देव्या सहितं सदाशिवं देव्यान्वितं वाक्यमिदं बभाषे॥ १७.
वयं च शंभो विषयान्विताश्च मंत्र्यादयः स्त्रीजिताश्चापि चान्ये १७.
एतद्वाक्यं निशम्याथ महेशः प्रहसन्निव १७.
भयं लोकापवादाच्च सर्वेषामपि नान्यथा १७.
तथापि उपहासो मे कृतो राज्ञा हि दुर्जरः १७.
रे दुरात्मन्कथं त्वज्ञ शंकरश्चोपहासितः १७.
साधूनां समचित्तानामुपहासं करोति यः १७.
एते मुनींद्राश्च महानुभावास्तथा ह्यमी ऋषयो वेदगर्भाः १७.
रे मूढ सर्वेषु जनेष्वभिज्ञस्त्वमेव एवाद्य न चापरे जनाः १७.
एवं शप्तस्तया देव्या भवान्या राजसत्तमः १७.
आसुरीं योनिमासाद्य वृत्रोनाम्नाऽभवत्तदा १७.
तपसा तेन महता अजेयो वृत्र उच्यत १७.
जहि वृत्रं महादैत्यं देवानां कार्यसिद्धये सोद्यापनविधिं ब्रूहि प्रदोषस्य च मेऽधुना॥ १७.
कार्तिके मासि संप्राप्ते मंदवारे त्रयोदशी १७.
वृषभो राजतः कार्यः पृष्ठे तस्य सुपीठकम् १७.
पंचवक्त्रं दशभुजमर्द्धांगे गिरिजां सतीम् १७.
सवृषं ताम्रपत्रे च वस्त्रेण परिगुंठिते १७.
विधिना जागरं कुर्याद्रात्रौ श्रद्धासमन्वितः १७.