गुरुणा विदितः सद्यो विश्वासेन परेण हि १७.
कार्तिके शुक्लपक्षे तु मंदवारे त्रयोदशी १७.
तस्यां प्रदोषसमये लिंगरूपी सदाशिवः १७.
स्नात्वा मध्याह्नसमये तिलामलकसंयुतम् १७.
पश्चात्प्रदोषवेलायां स्थावरं लिंगमर्च्चयेत् १७.
जने वा विजने वापि अरण्ये वा तपोवने १७.
ग्रामद्बहिः स्थितं लिंगं ग्रामाच्छतगुणं फलम् १७.
आरण्याच्छतगुणं पुण्यमर्चितं पार्वतं यथा तपोवनाश्रितं लिंगं पूजितं वा महाफलम्॥ १७.
तस्मादेतद्विभागेन शिवपूजनार्चनं बुधैः १७.
पंचपिंडान्समुद्धृत्य स्नानमात्रेण शोभनम् १७.
तडागे दश पिंडांश्च उद्धृत्य स्नानमाचरेत् १७.
सर्वेषामपि तीर्थानां गंगास्नानं विशिष्यते १७.
प्रदीपानां सहस्रेण दीपनीयः सदाशिवः १७.
घृतेन दीपयेद्दीपाञ्छिवस्य परितुष्टये १७.
उपचारैः षोडशभिर्लिंगरूपी सदा शिवः १७.
प्रदक्षिणं प्रकुर्वीत शतमष्टोत्तरं तथा १७.
प्रदक्षिणनमस्कारैः पूजनीयः सदाशिवः १७.
नमो रुद्राय भीमाय नीलकण्ठाय वेधसे १७.
वृषध्वजाय सोमाय नीलकण्ठाय वै नमः १७.
तपोमयाय व्याप्ताय शिपिविष्टाय वै नमः १७.
महीधराय व्याघ्राय पशूनां पतये नमः १७.
मीनाय मीननाथाय सिद्धाय परमेष्ठिने १७.
कपोताय विशिष्टाय शिष्टाय परमात्मने १७.
दीर्घाय दीर्घदीर्घाय दीर्घार्घाय महाय च १७.
गजासुरविनाशाय ह्यंधकासुरभेदिने १७.
भक्तिप्रियाय देवाय ज्ञानज्ञानाव्ययाय च १७.
त्रिनेत्राय त्रिवेदाय वेदांगाय नमोनमः १७.
विश्वरूपाय विश्वाय विश्वनाताय वै नमः १७.
अरूपाय च सूक्ष्माय सूक्ष्मसूक्ष्माय वै नमः १७.
शशांकशेखरायैव रुद्रविश्वाश्रयाय च १७.