यथा मेरोश्च शिखरं परिपूर्णं प्रदृश्यते १७.
तेन दृष्टो महेन्द्रश्च महेंद्रेण महासुरः १७.
तदा ते बद्धवैराश्च देवदैत्याः परस्परम् १७.
वादित्राणि च भीमानि वाद्यमानानि सर्वशः १७.
वाद्यमानेषु तूर्येषु ते सर्वे त्वरयान्विताः १७.
तदा देवासुरे युद्धे त्रैलोक्यं सचराचरम् १७.
छेदिताः स्फोटिताश्चैव केचिच्छस्त्रैर्द्विधा कृताः १७.
भल्लैश्चेरुर्हताः केचिद्व्यंगभूता दिवौकसः १७.
शिरांसि पतितान्येव बहूनिच नभस्तलात् १७.
प्रवर्तितं मध्यदेशे सर्वबूतक्षयावहम् १७.
वज्रेण जघ्ने तरसा नमुचिं देवराट् स्वयम् १७.
वज्रेणापि तदा सर्वे विस्मयं परमं गताः १७.
गदया नमुचिं जघ्ने गदा सापि विचूर्णिता १७.
तथा शूलेन महता तं जघान पुरंदरः १७.
एवं तं वविधैः शस्त्रैराजघान सुरारिहा १७.
तूष्णींभूतस्तदा चेंद्रश्चिंतया परया युतः १७.
एतस्मिन्नंतरे तत्र महायुद्धे महाभये १७.
जह्येनमद्याशु महेंद्र दैत्यं दिवौकसां घोरतरं भयावहम् १७.
अन्येन शस्त्रेण च आहतोऽसौ वध्यः कदाचिन्न भवत्ययं तु १७.
निशम्य वाचं परमार्थयुक्तां दैवीं सदानंदकरीं शुभावहाम् १७.
तत्रागतं समीक्ष्याथ नमुचिः क्रोधमूर्छितः १७.
समुद्रस्य तटः कस्मात्सेवितः सुरसत्तम १७.
त्वदीयेनैव वज्रेण किं कृतं मम दुर्मते॥ १७.
तथान्यानि च शस्त्राणि अस्त्राणि सुबहूनि च १७.
किं करिष्यसि मां हंतुं युद्धाय समुपस्थितः १७.
त्वां गातयामि चाद्यैव यदि तिष्ठसि संयुगे १७.
एवं स गर्वितं तस्य वाक्यमाहवशोभिनः १७.
फेनं करस्थं दृष्ट्वा तु असुरा जहसुस्तदा॥ १७.
क्षयं गतानि चास्त्राणि पेनेनैव पुरंदरः १७.
एवं प्रहस्य नमुचिरज्ञाय पुरंदरम् १७.