निशम्य वचनं तेषां देवानां भुनिरब्रवीत् १६.
प्रयच्छामि न संदेहो नान्यथा मम भाषितम् १६.
भयभीता वयं विप्र भवद्दर्शनकांक्षिणः १६.
सम्प्राप्ता विद्धि तत्सर्वं दातुमर्होऽथ सुव्रत॥ १६.
निशम्य वचनं तेषां किं दातव्यं तदुच्यताम्॥ १६.
ततो देवाब्रुवन्विप्र दैत्यानां निधनायनः १६.
प्रहस्योवाच विप्रर्षिस्तिष्ठध्वं क्षणमेव हि १६.
इत्युक्त्वा तानथो पत्नीं समाहूय सुवर्चसम् १६.
अस्थ्यर्थं याचितो देवैस्त्यजाम्येतत्कलेवरम् १६.
मयि याते ब्रह्मलोकं त्वं स्वधर्मेण तत्र माम् १६.
इत्युक्त्वा तां स्वपत्नीं स प्रेषयामास चाश्रमम् १६.
समाधिना परेणैव विसृज्य स्वं कलेवरम् १६.
दधीचिनामा मुनिवृंदवर्यः शिवप्रियः शिवदीक्षाभियुक्तः १६.
ततः सर्वे सुरगणा दृष्ट्वा तं विलयं गतम् १७.
सुरभिं चाह्वयित्वाथ तदोवाच शचीपतिः १७.
तथेति च वचोमत्वा तत्क्षणादेव लिह्य तत् १७.
जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः १७.
अन्यानि चास्थीनि बहूनि तस्य ऋषेस्तदानीं जगृहुः सुराश्च १७.
शस्त्राणि कृत्वा ते सर्वे महाबलपराक्रमाः १७.
ततः सुवर्च्चाश्च दधीचिपत्नी या प्रेषिता सा सुरकार्यसिद्धये १७.
ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीं च चुकोप साध्वी १७.
अहो सुरा दुष्टतराश्च सर्वे सर्वे ह्यशक्ताश्च तथैव लुब्धाः १७.
एव शापं ददौ तेषां सुराणां सा तपस्विनी १७.
निर्गतो जठराद्गर्भो दधीचस्य महात्मनः १७.
प्रहस्य जननी गर्भमुवाच रुषितेक्षणा १७.
अश्वत्थस्य महाभाग सर्वेषां सफलो भवेः पतिमन्वगमत्साध्वी परमेण समाधिना॥ १७.
एवं दधीचपत्नी सा पतिना स्वर्गमाव्रजत्॥ १७.
ते देवाः कृतशस्त्रास्त्रा दैत्यान्प्रति समुत्सुकाः १७.
गुरुं पुरस्कृत्य तदाज्ञया ते गणाः सुराणां बहवस्तदानीम् १७.
समागतानुपसृत्य देवांश्चेंद्रपुरोगमान् १७.