उत्सवो विपुलः सद्भिः शेषपूजापुरःसरम्
सन्तोष्य च द्विजान्भक्त्या नागपूजापुरस्सरम्
वैशाखमासे ये स्नानं कुर्वंत्यत्र समाहिताः
तस्मादत्र प्रकर्तव्यं माधवे यत्नतो नरैः तीर्थे कृतेऽत्र मनुजैः सर्वकामफलप्रदः
विष्णुमुद्दिश्य यो दद्यात्सालंकारां पयस्विनीम्
तस्य वासो भवेन्नित्य विष्णुलोके सनातने
अत्र पूज्यौ विशेषेण नरैः श्रद्धासमन्वितः
लक्ष्मीनारायणप्रीत्यै लक्ष्मीप्रात्यै विशेषतः
सर्वाण्यपि च संगत्य स्थास्यंत्यत्र न संशयः सर्वतीर्थावगाहस्य भविष्यति फलं महत् ।। 2.8.2.
शेषं संस्थाप्य तत्तीर्थे भूभारहरणक्षमम्
तदाप्रभृति तत्तीर्थं विख्यातिं परमां ययौ
पञ्चम्यामपि शुक्लायां श्रावणस्य विशेषतः सहस्रधारातीर्थे च नरः स्वर्गमवाप्नुयात्
विधिवदिह हि धीमान्स्नानदानानि तीर्थे नरवर इह शक्त्या यः करोत्यादरेण
प्रोवाच मधुरं वाक्यं कृष्णद्वैपायनो मुनिः
श्रुत्वा त्वत्तो मम मनः परमानंदमाययौ
अन्यत्तीर्थवरं ब्रूहि तत्त्वेन मम शृण्वतः
अगस्त्य उवाच शृणु विप्र प्रवक्ष्यामि तीर्थमन्यदनुत्तमम्
स्वर्गद्वारस्य माहात्म्यं विस्तराद्वक्तुमीश्वरः
सहस्रधारामारभ्य पूर्वतः सरयूजले
स्वर्गद्वारस्य विस्तारः पुराणज्ञैर्विशारदैः
सत्यंसत्यं पुनः सत्यं नासत्यं मम भाषितम्
हित्वा दिव्यानि भौमानि तीर्थानि सकलान्यपि
तस्मादत्र प्रकर्तव्यं प्रातः स्नानं विशेषतः 2.8.3.
त्यजंति प्राणिनः प्राणान्स्वर्गद्वारांतरे द्विज
मुक्तिद्वारमिदं पश्य स्वर्गप्राप्तिकरं नृणाम्
स्वर्गद्वारं सुदुष्प्राप्यं देवैरपि न संशयः
स्वर्गद्वारे परा सिद्धिः स्वर्गद्वारे परा गतिः ध्यानमध्ययनं सर्वं दानं भवति चाक्षयम्
जन्मांतरसहस्रेण यत्पापं पूर्वसंचितम्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः।। कृमिम्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः