पातालान्निर्गता दैत्या ये पुराऽमृतमंथने १६.
सर्वं महीतलं व्याप्तं तेनैकेन महात्मना॥ १६.
तदा सर्वेऽपि ऋषयो वध्यमानास्तपस्विनः १६.
तथा चेंद्रादयो देवा गंधर्वाः समरुद्गणाः १६.
भवद्वधार्थं जनितस्तपसा परमेण तु १६.
तथापि यत्नः क्रियतां यथा वध्यो भवेदसौ १६.
यदा इंद्रो हि हत्याया विमुक्तः स्थापितो दिवि १६.
शस्त्राण्यस्त्राण्यनेकानि संक्षिप्तानि ह्यबुद्धितः १६.
तच्छ्रुत्वा प्रहसन्वाक्यं देवान्ब्रह्मा तदाऽब्रवीत् १६.
गत्वा देवास्तदा सर्वे नापश्यन्स्वं स्वमायुधम् १६.
पुनर्ब्रह्माणमागात्य ऊचुः सर्वे मुनेर्वचः॥ १६.
ब्रह्मोवाच तदा देवान्सर्वेषां कार्यसिद्धये १६.
तच्छ्रुत्वा ब्राह्मणो वाक्यं शक्रो वचनमब्रवीत्॥ १६.
विश्वरूपो हतो देव देवानां कार्यसिद्धये १६.
तथा पुरोधसा चैव निःश्रीकस्तत्क्षणात्कृतः १६.
दधीचं घातयित्वा वै तस्यास्थीनि बहून्यपि १६.
त्वष्ट्रा हि जनितो यो वै वृत्रो नामैष दैत्यराट् शक्रेणोक्तं निशम्याथ ब्रह्मा वाक्यमुवाच ह॥ १६.
अर्थशास्त्रपरेणैव विधिना तमबोधयत् हंतुकामं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ १६.
दधीचस्य वधाद्ब्रह्मन्नहं भीतो न संशयः १६.
अतो न कार्यमस्माभिर्ब्राह्मणानां तु हेलनम् १६.
अदृष्टं परमं धर्म्यं विधिना परमेण हि १६.
निःस्पृहं तस्य तद्वाक्यं श्रुत्वा ब्रह्मा ह्युवाच तम् १६.
याचस्व तस्य चास्थीनि दधीचेः कार्यगौरवात् १६.
तथेति गत्वा ते सर्वे दधीचस्याश्रमं शुभम् १६.
मार्जारमूषकाश्चैव परस्परमुदान्विताः १६.
तथा जात्यश्च विविधाः क्रीडायुक्ताः परस्परम् १६.
एवंविधान्यनेकानि ह्यश्चर्याणि तदाश्रमे १६.
अथासने मुनिश्रेष्ठं ददृशुः परमास्थितम् १६.
विभावसुं द्वितीयं वा सुवर्चसहितं तदा १६.
तं प्रणम्य ततो देवा वचनं चेदमब्रुवन् १६.