शच्या समेतो हि तदा पुरंदरो बभूव विश्वाधिपतिर्महात्मा १६.
तदाग्नयः शोभना वायवश्च सर्वे ग्रहाः सुप्रभाः शांतियुक्ताः १६.
प्रसन्नानि तथा ह्यासन्मनांसि च मनस्विनाम्॥ १६.
नद्यश्चामृतवाहिन्यो वृक्षा ह्यासन्सदाफलाः १६.
ऐकपद्येन सर्वेषामिंद्रलोकनिवासिनाम् १६.
एतस्मिन्नंतरे त्वष्टा दृष्ट्वा चेंद्रमहोत्सवम् १६.
जगाम निर्वेदपरस्तपस्तप्तुं सुदारुणम् १६.
त्वष्टारमब्रवीत्तुष्टो वरं वरय सुव्रत वरं पुत्रो हि दात्वोय देवानां हि भयावहः॥ १६.
तथेति च वरो दत्तो ब्रह्मणा परमेष्ठिना १६.
वृत्रनामांकितस्तत्र दैत्यो हि परमाद्भुतः १६.
पातालान्निर्गता दैत्या ये पुराऽमृतमंथने १६.
सर्वं महीतलं व्याप्तं तेनैकेन महात्मना॥ १६.
तदा सर्वेऽपि ऋषयो वध्यमानास्तपस्विनः १६.
तथा चेंद्रादयो देवा गंधर्वाः समरुद्गणाः १६.
भवद्वधार्थं जनितस्तपसा परमेण तु १६.
तथापि यत्नः क्रियतां यथा वध्यो भवेदसौ १६.
यदा इंद्रो हि हत्याया विमुक्तः स्थापितो दिवि १६.
शस्त्राण्यस्त्राण्यनेकानि संक्षिप्तानि ह्यबुद्धितः १६.
तच्छ्रुत्वा प्रहसन्वाक्यं देवान्ब्रह्मा तदाऽब्रवीत् १६.
गत्वा देवास्तदा सर्वे नापश्यन्स्वं स्वमायुधम् १६.
पुनर्ब्रह्माणमागात्य ऊचुः सर्वे मुनेर्वचः॥ १६.
ब्रह्मोवाच तदा देवान्सर्वेषां कार्यसिद्धये १६.
तच्छ्रुत्वा ब्राह्मणो वाक्यं शक्रो वचनमब्रवीत्॥ १६.
विश्वरूपो हतो देव देवानां कार्यसिद्धये १६.
तथा पुरोधसा चैव निःश्रीकस्तत्क्षणात्कृतः १६.
दधीचं घातयित्वा वै तस्यास्थीनि बहून्यपि १६.
त्वष्ट्रा हि जनितो यो वै वृत्रो नामैष दैत्यराट् शक्रेणोक्तं निशम्याथ ब्रह्मा वाक्यमुवाच ह॥ १६.
अर्थशास्त्रपरेणैव विधिना तमबोधयत् हंतुकामं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ १६.
दधीचस्य वधाद्ब्रह्मन्नहं भीतो न संशयः १६.
अतो न कार्यमस्माभिर्ब्राह्मणानां तु हेलनम् १६.