एतादृशं न वाच्यं ते परेषामुपकारतः १६.
विश्वकर्मसुतेनैव कृतं याजनमद्भुतम् १६.
तस्माद्वतस्त्वया देव परेषामुपकारतः १६.
एवं विवदमानेषु देवेषु च तदाऽब्रवीत् १६.
तदा बृहस्पतिर्वाक्यमुवाच सहसैव तु॥ १६.
वासार्थं च करिष्यामः स्थानानि तव सांप्रतम् १६.
विमृश्य सर्वे विभजुश्चतुर्द्धा हत्यां सुरास्ते ऋषयो मनीषिणः १६.
आदौ क्षमां प्रति तदा ऊचुः सर्वे दिवौकसः १६.
सुराणां तद्वचः श्रुत्वा धरित्री कंपिताऽवदत् १६.
अहं हि सर्वभूतानां धात्री विश्वं धराम्यहम् १६.
पृथ्वयास्तद्वचनं श्रुत्वा बृहस्पतिरुवाच ताम् १६.
यदा यदुकुले श्रीमान्वासुदेवो भविष्यति १६.
कुरु वाक्यं त्वमस्माकं नात्र कार्या विचारणा॥ १६.
इत्युक्ता पृथिवी तेषां निष्पापा साकरोद्वचः १६.
हत्यांशो हि ग्रहीतव्यो भवद्भिः कार्यसिद्धये १६.
वयं सर्वे तथा भूतास्तापसानां फलप्रदाः १६.
पापिनो हि महाभागास्तस्मात्सर्वं विमृश्यताम् १६.
मा चिंता क्रियतां सर्वैः प्रसादाच्च शतक्रतोः १६.
ततो विटपिनो नित्यं यूयं सर्वे भविष्यथ १६.
ततो ह्यपः समाहूय ऊचुः सर्वे दिवौकसः १६.
तदा ह्यापो मिलित्वाथ ऊचुः सर्वाः पुरोधसम् १६.
अस्मत्संपर्कसंबंधात्स्नानशौचाशनादिभिः १६.
तासां वचनमाकर्ण्य बृहस्पतिरुवाच ह १६.
आपः पुनंतु सर्वेषां चराचरनिवासिनाम् १६.
अद्यैव ग्राह्ये हत्यांशः सर्वकार्यार्थसिद्धये १६.
पापमाचरते योषा तेन पापेन नान्यथा १६.
श्रुतमस्ति न ते किंचिद्धेपुरोधो विमृश्यताम् १६.
मा भयं क्रियतां सर्वाः पापादस्मात्सुलोचनाः हत्यांशो यो हि सर्वासां यथाकामित्वमेव च॥ १६.
एवमंशाश्च त्यायाश्चत्वारः कल्पिताः सुरैः १६.
निष्पापो हि तदा जातो महेंद्रो ह्यभिषेचितः १६.