एवं भूतान्यनेकानि सुकृतानि मया पुरा १५.
भूयः पृष्टः सर्वदेवैः स राजा कृतं सर्वं गुप्तमेव यथार्थम् १५.
वचो निशम्य देवानां ययातिरमितद्युतिः १५.
कथितं सर्वमेतच्च निःशेषं व्यासवत्तदा १५.
तत्क्षणादेव सर्वेषां सुराणां तत्र पश्यताम् १५.
अन्यो न दृश्यते लोके याज्ञिको यो हि तत्र वै १५.
सर्वे सुराश्च ऋषयोऽथ महाफणींद्रा गन्धर्वयक्षखगचारणकिंनराश्च १५.
ततः शची तान्प्रोवाच वाचं धर्मार्थसंयुताम् १६.
गच्छत त्वरिताः सर्वे शक्रं द्रष्टुं विचक्षणाः १६.
बहूनां कारणेनैव विश्वरूपे हि मंदधीः १६.
तस्मात्सर्वैर्भवद्भिश्च गंतव्यं यत्र स प्रभुः १६.
अवज्ञामात्रक्षुबंधेन त्वया शप्तः पुरंदरः १६.
निरस्तोऽपि हि तस्मात्त्वमवसानपरो भव॥ १६.
यथा मदर्थमानीतौ शक्रे जीवति तावुभौ १६.
कोऽपि सौभाग्यवाँल्लोके तव क्षेत्रे जनिष्यति १६.
गच्छ शीघ्रं सुरैःसार्द्धं शक्रमानय म चिरम् १६.
शच्योक्तं वचनं श्रुत्वा सुरैः सार्द्धं जगाम सः १६.
सरसस्तीरमासाद्य ते शक्रं चाभ्यवादयन् १६.
उवाच देवानेदेवेशः कस्माद्यूयमिहागताः अप्सु तिष्ठामि भो देवा एकाकी तपसान्वितः॥ १६.
तच्छ्रुत्वा वचनं तस्य सर्वे देवाः शतक्रतोः १६.
एतादृशं न वाच्यं ते परेषामुपकारतः १६.
विश्वकर्मसुतेनैव कृतं याजनमद्भुतम् १६.
तस्माद्वतस्त्वया देव परेषामुपकारतः १६.
एवं विवदमानेषु देवेषु च तदाऽब्रवीत् १६.
तदा बृहस्पतिर्वाक्यमुवाच सहसैव तु॥ १६.
वासार्थं च करिष्यामः स्थानानि तव सांप्रतम् १६.
विमृश्य सर्वे विभजुश्चतुर्द्धा हत्यां सुरास्ते ऋषयो मनीषिणः १६.
आदौ क्षमां प्रति तदा ऊचुः सर्वे दिवौकसः १६.
सुराणां तद्वचः श्रुत्वा धरित्री कंपिताऽवदत् १६.
अहं हि सर्वभूतानां धात्री विश्वं धराम्यहम् १६.