अगस्त्यः शिबिकावाही ततः क्रुद्धोऽशपन्नृपम् १५.
शापोक्तिमात्रतो राजा पतितो ब्राह्मणस्य हि १५.
यथा हि नहुषो जातस्तथा सर्वेऽपि तादृशाः १५.
तस्मासर्वप्रयत्नेन पदं प्राप्य विचक्षणैः १५.
तथैव नहुषः सर्प्पो जातोरण्ये महाभये १५.
तथैव ते सुराः सर्वे विस्मयाविष्टचेतसः १५.
न मर्त्य लोको न स्वर्गो जातो ह्यस्य दुरात्मनः १५.
याज्ञिको ह्यपरो लोके कथ्यतां च महामुने १५.
ययातिं च महाभागा आनयध्वं त्वरान्विताः १५.
विमानमारुह्य तदा महात्मा ययौ दिवं देवदूतैः समेतः १५.
आयातः सोऽमरावत्यां त्रिदशैरभितोषितः १५.
नारदेनैवमुक्तस्तु त्वं राजा याज्ञिको ह्यसि १५.
ये प्राप्नुवंति धर्मिष्ठा दैवेन परमं पदम् १५.
पतंति नरके घोरे स्तब्धा वै नात्र संशयः॥ १५.
यैः कृतं पुण्यं तेषां विघ्नः प्रजायते १५.
महादानानि दत्तानि अन्नदानयुतानि च १५.
तथैव सर्वाण्यपि चोत्तमानि दानानि चोक्तानि मनीषिभिर्यदा १५.
यज्ञैरिष्टं वाजपेयातिरात्रैर्ज्योतिष्टोमै राजसूयादिभिश्च १५.
देवदेवो जगन्नाथ इष्टो यज्ञैरनेकशः १५.
पत्नीत्वेन चतुर्भ्यश्च दत्ताः कन्या मुने तदा १५.
एवं भूतान्यनेकानि सुकृतानि मया पुरा १५.
भूयः पृष्टः सर्वदेवैः स राजा कृतं सर्वं गुप्तमेव यथार्थम् १५.
वचो निशम्य देवानां ययातिरमितद्युतिः १५.
कथितं सर्वमेतच्च निःशेषं व्यासवत्तदा १५.
तत्क्षणादेव सर्वेषां सुराणां तत्र पश्यताम् १५.
अन्यो न दृश्यते लोके याज्ञिको यो हि तत्र वै १५.
सर्वे सुराश्च ऋषयोऽथ महाफणींद्रा गन्धर्वयक्षखगचारणकिंनराश्च १५.
ततः शची तान्प्रोवाच वाचं धर्मार्थसंयुताम् १६.
गच्छत त्वरिताः सर्वे शक्रं द्रष्टुं विचक्षणाः १६.
बहूनां कारणेनैव विश्वरूपे हि मंदधीः १६.