आपूरितदिशाभोगा तेजस्तत्सोढुमक्षमः
अथ तेजो निजं घोरं प्रज्वलत्सोढुमक्षमम्
उपायेन निहंतव्यो दुष्टोऽयं महिषासुरः
दूतोक्तिभिः समाकृष्य मृद्वीभिर्मर्मवृत्तिभिः
अधर्मवृत्तियुक्तानां धर्मवाक्यपरिश्रवात् 1.3.1.10.
अथवा धर्मबुद्धिस्सन्यदि शांतो भविष्यति
तपस्यद्भिः सदा कार्यः कोपत्यागः फलान्वितः
इति संचिंत्य सा गौरी नाम्ना सुरगुरुं मुनिम्
गच्छ त्वं मायया युक्तो महर्षे वानरानन
मैव त्वमरुणाद्रीशमुपपीडय दुर्मते
न कलेरुपतापोऽत्र नासुरैरपि पीडनम्
पूर्वजन्मकृतैः पुण्यैर्लब्धवीर्यमहोदयः
शिवेन दत्ता विभवास्तव पूर्वतपोबलात्
अत्र धर्मात्मनां वासः शिवभक्तिमतां सदा
ऐश्वर्य्यमतुलं प्राप्तो बलमन्यद्दुरासदम् 1.3.1.10.
मया कन्या पुनर्दृष्टा विशेषादबला मता
अथवा युक्तिभेदैस्त्वं शास्त्रैर्वा शिवसंमतैः
येन लोकान्समस्तांस्त्वं बाधसे बलगर्वितः
आनीय सकलं सैन्यमग्रे स्थापय सायुधम्
मच्छस्त्र परिकृत्तस्य ससैन्यस्य तवायुषः
वार्यमाणोऽपि पूर्वेण कर्मणा प्रेरितो जनः
त्वयापि करुणावाक्यं वक्तव्यं किल भूरिभिः
इति गौर्या समादिष्टा वाचं कपिमुखो मुनिः
सोऽपि सर्वं समाकर्ण्य क्रोधवेगसमाकुलः
अथ सैन्यं निजं सर्वं समाहूय दुराशयः 1.3.1.10.
युगांतसमयोद्वेलचतुरर्णवसंनिभम्
अथ गौरी समालोक्य दैत्यानां सैन्यमद्भुतम्
एकपादाक्षिचरणा लंबकर्णपयोधराः
अहं ग्रसामि सकलमपर्याप्तमिदं मम
किं त्वयात्र पुनः कार्यं वीक्ष्य त्वं तिष्ठ केवलम्