नहुषं राज्यमारोढुमैकपद्येन ते यदा १५.
राज्यं दत्तं महेंद्रस्य सुरैः सर्वैर्महर्षिभिः १५.
गंधर्वाप्सरसो यक्षा विद्याधरमहोरगाः १५.
तदा महोत्सवो जातो देवपुर्यां निरंतरः १५.
गायकाश्च जगुस्तत्र तथा वाद्यानि वादकाः १५.
अभिषिक्तस्तदा तत्र बृहस्पतिपुरोगमैः॥ १५.
अर्चितो देवसूक्तैश्च यथा वद्ग्रहपूजनम् १५.
तथा च सर्वैः परिपूजितो महान्राजा सुराणां नहुषस्तदानीम् १५.
सुगंधदीपैश्च सुवाससा युतोऽलंकारभोगैः सुविराजितांगः १५.
इति परमकलान्वितोऽसौ सुरमुनिवरगणैश्च पूज्यमानः १५.
इंद्राणी कथमद्यैव नायाति मम सन्निधौ १५.
नहुपस्य वचः श्रुत्वा बृहस्पतिरुदारधीः १५.
शक्रस्य दुर्निमित्तेन ह्यनीतो नहुषोऽत्र वै १५.
शची प्रहस्य चोवाच बृहस्पतिमकल्मषम् एकोनमश्वमेधानां शतं कृतमनेन वै॥ १५.
तस्मान्न योग्यो प्रहस्य चोवाच बृहस्पतिमकल्पणषम् अवाह्यवाहनेनैव अत्रागत्य लभेत माम्॥ १५.
तथेति गत्वा त्वरितो बृहस्पतिरुवाच तम् १५.
तथेति मत्वा राजासौ नहुषः काममोहितः १५.
स बुद्ध्या च चिरं स्मृत्वा ब्राह्मणाश्चतपस्विनः १५.
द्वाभ्यां च तस्याः प्राप्त्यर्थमिति मे हृदि वर्तते १५.
उपविश्य तदा तस्यां शिवबिकायां समाहितः १५.
अगस्त्यः शिबिकावाही ततः क्रुद्धोऽशपन्नृपम् १५.
शापोक्तिमात्रतो राजा पतितो ब्राह्मणस्य हि १५.
यथा हि नहुषो जातस्तथा सर्वेऽपि तादृशाः १५.
तस्मासर्वप्रयत्नेन पदं प्राप्य विचक्षणैः १५.
तथैव नहुषः सर्प्पो जातोरण्ये महाभये १५.
तथैव ते सुराः सर्वे विस्मयाविष्टचेतसः १५.
न मर्त्य लोको न स्वर्गो जातो ह्यस्य दुरात्मनः १५.
याज्ञिको ह्यपरो लोके कथ्यतां च महामुने १५.
ययातिं च महाभागा आनयध्वं त्वरान्विताः १५.
विमानमारुह्य तदा महात्मा ययौ दिवं देवदूतैः समेतः १५.