किं कार्यं चाद्य कर्तव्यं कथं श्रेयो भविष्यति १५.
मनसैव च तत्सर्वं कार्याकार्यं विचार्य च १५.
प्राप्तो जलाशयं तं च यत्रास्ते हि पुरंदरः १५.
तत्रोविष्टास्ते सर्वे देवा ऋषिगणान्विताः १५.
समुत्थितस्ततः शक्रो ददर्श स्वगुरुं तदा १५.
प्रणिपत्य च तत्रत्यान्कृताञ्जलिरभाषत १५.
स्वयमेव कृतं पूर्वमज्ञानलक्षणं महत् १५.
प्रहस्योवाच भगवान्बृहस्पति रुदारधीः १५.
मां च उद्दिश्य भो इंद्र तद्भोगादेव संक्षयः १५.
अज्ञानतो हि यज्जातं पापं तस्य प्रतिक्रिया १५.
सकामेन कृतं पापमकामं नैव जायते १५.
मरणांतो विधिः कार्यो कामेन हि कृतेन हि १५.
तस्मात्त्वया कृतं यच्च स्वयमेव हतो द्विजः १५.
यावन्मरणमप्येति तावदप्सु स्थिरो भव॥ १५.
शताश्वमेधसंज्ञं च यत्फलं तव दुर्मते १५.
सच्छिद्रे च यथा तोयं न तिष्ठति घटेऽण्वपि १५.
तस्माच्च दैवसंयोगात्प्राप्तं स्वर्गादिकं च यैः १५.
एतच्छ्रुत्वा वचस्तस्य शक्रो वचनमब्रवीत् १५.
अमरावती माशु त्वं गच्छ देवर्षिबिः सह इंद्रं कुरु महाभाग यस्ते मनसि रोचते॥ १५.
यथा मृतस्तथा हं वै ब्रह्महत्यावृतो महान् १५.
तस्मात्त्वरान्विता यूयं देवराजानमाशुः वै १५.
एवमुक्तास्तदा सर्वे बृहस्पतिपुरोगमाः कथयामासुरव्यग्रा शचीं प्रति यथा तथा॥ १५.
राज्यस्य हेतोः किं कार्यं विमृशंतः परस्परम्॥ १५.
एवं विमृश्यमानानां देवानां तत्र नारदः १५.
उवाच पूजितो देवान्कस्माद्यूयं विचेतसः १५.
गतमिंद्रस्य चेंद्रत्वमेनसा परमेण तु १५.
यूयं देवाश्च सर्वज्ञास्तपसा विक्रमेण च १५.
सोऽस्मिन्राष्ट्रे प्रतिष्ठाप्यस्त्वरितेनैव निर्जराः कृतमस्ति महाभागा नहुषेण च यज्वना॥ १५.
शच्या श्रुतं च तद्वाक्यं नारदस्य मुखोद्गतम् १५.
नारदस्य वचः श्रुत्वा सर्वे देवान्वमोदयन्॥ १५.