ततो भयेन महता पलायनपरोऽभवत् १५.
यतो धावति साऽधावत्तिष्ठंतमनुतिष्ठति आयाति तावत्सहसा इंद्रोऽप्यप्सु न्यमज्जत॥ १५.
शीघ्रत्वेन यथा विप्राश्चिरंतनजलेचरः॥ १५.
एवं दिव्यशतं पूर्णं वर्षाणां च शचीपतेः अराजकं तदा जातं नाकपृष्ठे भयावहम्॥ १५.
तदा चिंतान्विता देवा ऋषयोऽपि तपस्विनः १५.
एकोऽपि ब्रह्महा यत्र राष्ट्रे वसति निर्भयः १५.
राजा पापयुतो यस्मिन्राष्ट्रे वसति तत्र वै १५.
भवंति बहवोऽनर्थाः प्रजानां नाशहेतवे १५.
तथा प्रकृतयो राज्ञः शुचजित्वेन प्रतिष्ठिताः नानाविधैर्महातापैः सोपद्रवमभूज्जगत्॥ १५.
अश्वमेधशतेनैव प्राप्तं राज्यं महत्तरम् शक्रस्य च महाभाग यथावत्कथयस्व न॥ १५.
देवानां दानवानां च मनुष्याणां विशेषतः १५.
इन्द्रेण च कृतं विप्रा महद्भूतं जुगुप्सितम् १५.
गौतमस्य गुरोः पत्नी सेविता तस्य तत्फलम् १५.
ये हि दृष्कटतकर्म्माणो न कुर्वंति च निष्कृतिम् १५.
दुष्कृतोपार्जितस्या तः प्रायाश्चित्तं हि तत्क्षणात् १५.
उपपातकमध्यस्तं महापातकतां व्रजेत्॥ १५.
ततः स्वधर्मनिष्ठां च ये कुर्वंति सदा नराः १५.
प्राप्नुवंत्युत्तमं लोकं नात्र कार्या विचारणा १५.
स प्रधार्य तदा सर्वे लोकपालास्त्वरान्विताः कथयामासुरव्यग्रा इंद्रस्य च गुरुं प्रति॥ १५.
देवैरुक्तं वचो विप्रा निशम्य च बृहस्पतिः १५.
किं कार्यं चाद्य कर्तव्यं कथं श्रेयो भविष्यति १५.
मनसैव च तत्सर्वं कार्याकार्यं विचार्य च १५.
प्राप्तो जलाशयं तं च यत्रास्ते हि पुरंदरः १५.
तत्रोविष्टास्ते सर्वे देवा ऋषिगणान्विताः १५.
समुत्थितस्ततः शक्रो ददर्श स्वगुरुं तदा १५.
प्रणिपत्य च तत्रत्यान्कृताञ्जलिरभाषत १५.
स्वयमेव कृतं पूर्वमज्ञानलक्षणं महत् १५.
प्रहस्योवाच भगवान्बृहस्पति रुदारधीः १५.
मां च उद्दिश्य भो इंद्र तद्भोगादेव संक्षयः १५.
अज्ञानतो हि यज्जातं पापं तस्य प्रतिक्रिया १५.