सुरसेनान्वितः सद्य आगतो हि त्रिविष्टपम् बभूवुर्मुदिताः सर्वे यक्षगंधर्वकिंनराः॥ १४.
तदा इंद्रोऽमरावत्यां हस शच्याऽभिषेचितः॥ १४.
देवर्षिप्रमुखैश्चैव ब्रह्मर्षिप्रमुखैस्तथा १४.
तदा महोत्सवो विप्रा देवलोके महानभूत् तथानकाश्च भेर्यश्च नेदुर्दुंदुभयः समम्॥ १४.
गायकाश्चैव गंधर्वाः किन्नराश्चाप्सपोगणाः १४.
एवं विजयमापन्नः शक्रो देवेस्वरस्तदा १४.
गतासवो महात्मानो बलिप्रमुखतो ह्यमी १४.
गतः शिष्यैः परिवृतस्तस्माद्युद्धं न वेद तत् १४.
कथितं वै महद्धृत्तमसुराणां क्षयावहम् १४.
शिष्यैः परिवृतो भूत्वा मृतांस्तानसुरानपि १४.
निद्रापायगता यद्वदुत्थितास्ते तदाऽसुराः १४.
जीवितेन किमद्यैव मम नास्ति प्रयोजनम् १४.
बलिनोक्तं वचः श्रुत्वा शुक्रो वचनमब्रवीत् १४.
ये शस्त्रेण हताः सद्यो म्रियमाणा व्रजंति वै १४.
एवमाश्वासयामास बलिनं भृगुनंदनः १४.
तथा दैत्य गताः सर्वे भृगुणा च प्रचोदिताः १४.
राज्यं प्राप्तो हि देवेंद्रः कथितस्ते गुरुं विना १५.
केन प्रणोदितश्चेंद्रो बभूव चिरमासने १५.
गुरुणापि विना राज्यं कृतवान्स शचीपतिः १५.
विश्वकर्मसुतो विप्रा विश्वरूपो महानृपः १५.
तस्मिन्यज्ञेऽवदानैश्च यजने असुरान्सुरान् १५.
देवान्ददाति साक्रोशं दैत्यांस्तूष्णीमथाददात् १५.
एकदा तु महेंद्रेण सूचितो गुरुलाघवात् १५.
दैत्यानां कार्यसिद्ध्यर्थमवदानं प्रयच्छति १५.
इति मत्वा तदा शक्रो वज्रेण शतपर्वणा १५.
येनाकरोत्सोमपानमजायंत कपिंजलाः १५.
अन्याननादजायंत तित्तिरा विश्वरूपिणः १५.
ब्रह्महत्या तदोद्भूता दुर्धर्षा च भयावहा १५.
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः १५.
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः १५.