इति तस्य वचः श्रुत्वा स्मृतदेवाभवत्क्रमात्
अहं बलवतो भार्या भविष्यामि तपश्चिरम्
विरच स्त्रीस्वभावं स्वं श्रुत्वा तद्वाक्यमुत्थितम्
जिघृक्षतं समायांतं वीक्ष्य तं महिषासुरम्
महामायां समालोक्य ज्वलंती पुरतः स्थिताम् 1.3.1.10.
कुलभूधरशृंगाणि शृंगाभ्यां मुहुराक्षिपन्
अथ ब्रह्ममुखा देवाः प्रणम्य विविधायुधैः
पंचहेतीर्हरिः प्रादाद्दश चापि सदाशिवः
दिक्पालाश्च सुराश्चान्ये पर्वताश्च पयोधयः
माया सा बहुभिर्हस्तैर्ज्वलदायुधसंचयैः
आपूरितदिशाभोगा तेजस्तत्सोढुमक्षमः
अथ तेजो निजं घोरं प्रज्वलत्सोढुमक्षमम्
उपायेन निहंतव्यो दुष्टोऽयं महिषासुरः
दूतोक्तिभिः समाकृष्य मृद्वीभिर्मर्मवृत्तिभिः
अधर्मवृत्तियुक्तानां धर्मवाक्यपरिश्रवात् 1.3.1.10.
अथवा धर्मबुद्धिस्सन्यदि शांतो भविष्यति
तपस्यद्भिः सदा कार्यः कोपत्यागः फलान्वितः
इति संचिंत्य सा गौरी नाम्ना सुरगुरुं मुनिम्
गच्छ त्वं मायया युक्तो महर्षे वानरानन
मैव त्वमरुणाद्रीशमुपपीडय दुर्मते
न कलेरुपतापोऽत्र नासुरैरपि पीडनम्
पूर्वजन्मकृतैः पुण्यैर्लब्धवीर्यमहोदयः
शिवेन दत्ता विभवास्तव पूर्वतपोबलात्
अत्र धर्मात्मनां वासः शिवभक्तिमतां सदा
ऐश्वर्य्यमतुलं प्राप्तो बलमन्यद्दुरासदम् 1.3.1.10.
मया कन्या पुनर्दृष्टा विशेषादबला मता
अथवा युक्तिभेदैस्त्वं शास्त्रैर्वा शिवसंमतैः
येन लोकान्समस्तांस्त्वं बाधसे बलगर्वितः
आनीय सकलं सैन्यमग्रे स्थापय सायुधम्
मच्छस्त्र परिकृत्तस्य ससैन्यस्य तवायुषः