गगनमथ जगाहे मंदमंदं महात्मा ह्यसुरगणसमेतो विश्वरूपं जिघांसुः १३.
ततो युद्धमतीवासीदसुरैर्विष्णुना सह १४.
असुरैरुह्यमानास्ते रहुत्मंतं व्यदारयन् १४.
विष्णुना च तदा दैत्याश्चक्रेण शकलीकृताः १४.
त्रिशूलेनाहनद्विष्णुं रोषपर्याकुलेक्षणः १४.
करेण वामेन जघान लीलया तं कालनेमिं ह्यसुरं महाबलम् १४.
पतितः पुनरुत्थाय शनैरुन्मील्य लोचने १४.
लब्धसंज्ञोऽब्रवीद्वाक्यं कालनेमिर्महाबलः १४.
ये येऽसुरा हता युद्धे अक्षयं लोकमाप्नुयुः १४.
भुंजतो विविधान्भोगान्देववद्विचरंति ते १४.
तस्माद्युद्धेन मरणं न कांक्षे क्षणभंगुरम् दातुमर्हसि मे नाथ कैवल्यं केवलं परम्॥ १४.
तथेति दैत्यप्रवरो निपातितः परेण पुंसा परमार्थदेन १४.
कालनेमिर्हतो दैत्यो देवा जाता ह्यकटकाः १४.
तिरोधानं गतः सद्यो भगवान्कमलेक्षणः १४.
पतितानां क्लीबरूपाणां भग्नानां भीतचेतसाम् १४.
अर्थशास्त्रपरो भूत्वा महेंद्रो दुरातिक्रमः १४.
एवं निहन्य्मानानामसुराणां शचीपतेः १४.
युद्धहताश्च ये वीरा ह्यसुरा रणमण्डले १४.
ये भीतांश्च प्रपन्नांश्चघातयंति मदोद्धताः १४.
तस्मात्त्वया न कर्त्तव्यं मनसापि विहिंसनम् १४.
सुरसेनान्वितः सद्य आगतो हि त्रिविष्टपम् बभूवुर्मुदिताः सर्वे यक्षगंधर्वकिंनराः॥ १४.
तदा इंद्रोऽमरावत्यां हस शच्याऽभिषेचितः॥ १४.
देवर्षिप्रमुखैश्चैव ब्रह्मर्षिप्रमुखैस्तथा १४.
तदा महोत्सवो विप्रा देवलोके महानभूत् तथानकाश्च भेर्यश्च नेदुर्दुंदुभयः समम्॥ १४.
गायकाश्चैव गंधर्वाः किन्नराश्चाप्सपोगणाः १४.
एवं विजयमापन्नः शक्रो देवेस्वरस्तदा १४.
गतासवो महात्मानो बलिप्रमुखतो ह्यमी १४.
गतः शिष्यैः परिवृतस्तस्माद्युद्धं न वेद तत् १४.
कथितं वै महद्धृत्तमसुराणां क्षयावहम् १४.
शिष्यैः परिवृतो भूत्वा मृतांस्तानसुरानपि १४.