बलिना सह देवेन्द्रो युयुधेऽद्भुतविक्रमः १३.
तां शक्तिं वञ्चयामास महेन्द्रो लघुविक्रमः १३.
वज्रेण शितधारेण बाहुं चिच्छेद विक्रमी १३.
पतितं च बलिं दृष्ट्वा वृषपर्वा रूपान्वितः १३.
महेंद्रं सगजं चैव सहमानं शिताञ्छरान् १३.
निपात्य वृषपर्वाणमिंद्रः परबलार्दनः॥ १३.
ततो वज्रेण महता दानवानवधीद्रणे १३.
विह्वलाश्च कृताः केचिदिंद्रेण कुपितेन च १३.
कुबेरेण हताश्चान्ये नैर्ऋतेन तथा परे १३.
एवं तदा तैर्निहता बलीयसो महासुरा विक्रमशानिनश्च १३.
ततो महादैत्यवरो दुरात्मा स कलानेमिः परमास्त्रयुक्तः १३.
सिंहारूढो दंशितश्च त्रिशुलेन हि संयुतः १३.
ते सिंहा दंशिताः सर्वे महाबलपराक्रमाः १३.
आयांतीं दैत्यसेनां तां सर्वां सिंहविभूषिताम् भयमाजग्मुरतुलं तदा ध्यानपरा भवन्॥ १३.
किं कुर्मोऽद्य वयं सर्वे कथं जेष्याम चाद्भुतम् १३.
एवं विचिंत्यमानास्ते ह्यागतस्तत्र नारदः १३.
कथितं च महेंद्राय कालनेमेस्तपोबलम् १३.
विष्णुं विना वयं देवा अशक्ता रणमंडले तमालनीलो वरदः सर्वैर्विजयकांक्षिभिः॥ १३.
नारदस्य वचः श्रुत्वा तदा देवास्त्वरान्विताः स्मरंतः परमात्मानमिदमूचुश्च तं विभुम्॥ १३.
नमस्तुभ्यं भगवते नमस्ते विश्वमंगलम् १३.
अद्यास्मान्भयभीतांस्त्वं कालनेमिभयार्दितान् १३.
एवं ध्यातः संस्मृतश्च प्रादुर्भूतो हरिस्तदा १३.
चक्रपाणिस्तदायातो देवानां विजयाय च श्रीवासमेनं दुर्द्धर्षं योद्धुकामं ददर्शिरे॥ १३.
तथा दृष्ट्वा कालनेमिस्तदानीं प्रहस्यमानोऽतिरुषा बलान्वितः करे गृहीतं निशितं महाप्रभं चक्रं च कस्मात्कथयस्व मे प्रभो॥ १३.
युद्धार्थमिह चायातो देवानां कार्यसिद्धये १३.
श्रुत्वा भगवतो वाक्यं कालनेमिः प्रतापवान् १३.
मूलभूतो हि देवानां भगवान्युद्धदुर्मदः १३.
प्रहस्य भगवान्विष्णुरुवाचेदं महाप्रभः १३.
अप्रशस्तं च विषमं युद्धं चैव यथा भवेत् १३.
तथेति मत्वा हि महानुभावो दैत्यैः समेतोऽर्बुदसंख्यकैश्च १३.