घृताक्ता यैः कृता दीपा दीपिताश्च शिवालये १३.
कर्पूरागुरुधूपैश्च ये यजंति सदा शिवम् ते प्राप्नुवंति सायुज्यं नात्र कार्या विचारणा॥ १३.
एककालं द्विकालं वा त्रिकालं ये ह्यतंद्रिताः १३.
रुद्राक्षधारणं ये च कुर्वंति शिवपूजने तेषां यत्सुकृतं सर्वमनंतं भवति द्विजाः॥ १३.
रुद्राक्षा ये शिवेनोक्तास्ताच्छृणुध्वं द्विजोत्तमाः एतेषां द्वौ च विज्ञेयौ श्रेष्ठौ तारयितुं द्विजाः॥ १३.
रुद्राक्षाणां पंचमुखखस्तथा चैकमुखः स्मृतः रुद्रलोकं च गच्छंति मोदन्ते रुद्रसंनिधौ॥ १३.
जपस्तपः क्रिया योगः स्नानं दानार्चनादिकम् १३.
शुनः कंठनिबद्धोऽपि रुद्राक्षो यदि वर्तते १३.
तथा रुद्राक्षसंबंधात्पापमपिक्षयं व्रजेत् १३.
त्रिपुण्ड्रधारणं येषां विभूत्वा मन्त्रपूतया १३.
कपिलायाश्च संगृह्य गोमयं चांतरिक्षगम् १३.
विभूतीति समाख्याता सर्वपापप्रणाशिनी १३.
मध्यमां वर्जयित्वा तु अंगुलीक्द्वयेन च स शैवः शिववज्ज्ञेयो दर्शनात्पापनाशनः॥ १३.
जटाधराश्च ये शैवाः सप्त पंच तथा नव १३.
ते शिवं प्राप्नुवं तीह नात्र कार्या विचारणा १३.
अल्पेन वा महत्त्वेन पूजितो वा सदाशिवः १३.
तस्माच्छिवात्परतरं नास्ति किंचिद्द्विजोत्तमाः १३.
शिवो दाता हि लोकानां कर्ता चैवानुमोदिता १३.
शिवेति द्व्यक्षरं नाम त्रायते महतो भयात् १३.
सोमनाथस्य माहात्म्यं ज्ञातं तस्य प्रसादतः १३.
सुराश्चेंद्रादयश्चान्ये तस्मिन्युद्धे सुदारुणे १३.
शिवस्य महिमा सर्वः श्रुतस्तव मुखोद्गतः १३.
यदा हि दैत्यैश्च पराजिताः सुराः शम्भुं च सर्वे शरणं प्रपन्नाः १३.
तथैव दैत्या अपि युध्यमाना उत्साहयुक्तातिबलाश्च सर्वे १३.
एवं च सर्वे ह्यसुराः सुराश्च शक्त्यृष्टिशूलैः परिघैः परश्वधैः निहन्यमाना ह्यसुराः सुरैस्तदा नानास्त्रयोगैः परमैर्निपेतुः॥ १३.
चक्रुस्ते सकलामुर्वी मांसशोणितकर्दमाम् १३.
शिरांसि च कबन्धानि कवचानि महांति च १३.
बहन्त्यश्चापगा ह्यासन्नद्यो भीरुभयावहाः तयंति परान्भूतप्रतप्रमथराक्षसान्॥ १३.
शाकिनीडाकिनीसंघा यक्षिण्योऽथ सहस्रशः १३.
एवं संक्रीडमानास्ते भूतप्रमथराक्षसाः १३.