जल्पंति नानागमभेदैर्मीमांसमानाश्च भवंति मूकाः १३.
शिवं हि नित्यं परमात्मदैवं वेदैकवेद्यं परमात्मदिव्यम् १३.
येनैव सृष्टं विधृतं च येन येन श्रितं येन कृतं समग्रम् १३.
आढ्यो वापि दरिद्रो वा उत्तमो ह्यधमोऽपि वा १३.
यो वा परकृतां पूजां शिवस्योपरि शोभिताम् १३.
ये दीपमालां कुर्वंति कार्तिक्यां श्रद्धयान्विताः तावद्युगसहस्राणि दाता स्वर्गे महीयते॥ १३.
कौसुंभतैलसंयुक्ता दीपा दत्ताः शिवालये १३.
अतसीतैलसंयुक्ता दीपा दत्ताः शिवालये १३.
ज्ञानिनोऽपि हि जायंते दीपदानफलेन हि॥ १३.
तिलतैलेन संयुक्ता दीपा दत्ताः शिवालये १३.
घृताक्ता यैः कृता दीपा दीपिताश्च शिवालये १३.
कर्पूरागुरुधूपैश्च ये यजंति सदा शिवम् ते प्राप्नुवंति सायुज्यं नात्र कार्या विचारणा॥ १३.
एककालं द्विकालं वा त्रिकालं ये ह्यतंद्रिताः १३.
रुद्राक्षधारणं ये च कुर्वंति शिवपूजने तेषां यत्सुकृतं सर्वमनंतं भवति द्विजाः॥ १३.
रुद्राक्षा ये शिवेनोक्तास्ताच्छृणुध्वं द्विजोत्तमाः एतेषां द्वौ च विज्ञेयौ श्रेष्ठौ तारयितुं द्विजाः॥ १३.
रुद्राक्षाणां पंचमुखखस्तथा चैकमुखः स्मृतः रुद्रलोकं च गच्छंति मोदन्ते रुद्रसंनिधौ॥ १३.
जपस्तपः क्रिया योगः स्नानं दानार्चनादिकम् १३.
शुनः कंठनिबद्धोऽपि रुद्राक्षो यदि वर्तते १३.
तथा रुद्राक्षसंबंधात्पापमपिक्षयं व्रजेत् १३.
त्रिपुण्ड्रधारणं येषां विभूत्वा मन्त्रपूतया १३.
कपिलायाश्च संगृह्य गोमयं चांतरिक्षगम् १३.
विभूतीति समाख्याता सर्वपापप्रणाशिनी १३.
मध्यमां वर्जयित्वा तु अंगुलीक्द्वयेन च स शैवः शिववज्ज्ञेयो दर्शनात्पापनाशनः॥ १३.
जटाधराश्च ये शैवाः सप्त पंच तथा नव १३.
ते शिवं प्राप्नुवं तीह नात्र कार्या विचारणा १३.
अल्पेन वा महत्त्वेन पूजितो वा सदाशिवः १३.
तस्माच्छिवात्परतरं नास्ति किंचिद्द्विजोत्तमाः १३.
शिवो दाता हि लोकानां कर्ता चैवानुमोदिता १३.
शिवेति द्व्यक्षरं नाम त्रायते महतो भयात् १३.
सोमनाथस्य माहात्म्यं ज्ञातं तस्य प्रसादतः १३.