परिघायुधिनः पाशशूलमुद्गरपाणयः १३.
हयनागरथाश्चान्ये समारूढाः प्रहारिणः १३.
स्पर्द्धमानास्ततान्योन्यं गर्जंतश्च मुहुर्मुहुः १३.
त्वया कृतं महाबाहो इंद्रेण सह संगमम् १३.
ऊनेनापि हि तुच्छेन वैरिणापि कथंचन १३.
न विश्वसेत्पूर्वविरोधिना क्वचित्पराजिताः स्मोऽथ बले त्वयाधुना १३.
इत्यूचुस्ते दुराधर्षा योद्धुकामा व्यवस्थिताः १३.
चामरैश्च दिशः सर्वा लोपितं च रणस्थलम् १३.
पीत्वामृतं महाभागा वाहान्यारुह्य दंशिताः सूर्यश्चोच्चैः श्रवारूढो मृगा रूढश्च चन्द्रमाः॥ १३.
छत्रचामरसंवीताः शोभिता विजयश्रिया १३.
ते विष्णुना ह्यनुज्ञाता असुरान्प्रति वै रुषा १३.
तेषां बोरमभूद्युद्धं देवानां दानवैः सह १३.
शरधारान्वितं सर्वं बभूव परमाद्भुतम् १३.
ततो निमिषमात्रेण शरघातयुता भवन् १३.
विध्यमानास्तथा केचिद्विविधुश्चापरान्रणे १३.
क्षुरप्रहारिताः केचिद्दैत्या दानवराक्षसाः १३.
एवं भग्नं दानवानां च सैन्यं दृष्ट्वा देवा गर्जमानाः समंतात् १३.
शंखवादित्रघोषेण पूरितं च जगत्त्रयम् १३.
बलिप्रभृतयः सर्वे संभ्रमेणोत्थिताः पुनः १३.
द्वंद्वयुद्धं सुतुमुलं देवानां दानवैः सह १३.
बलिना दानवेंद्रेण महेंद्रो युयुधे तदा १३.
नैर्ऋतः प्रघसेनैव पाशी कुंभेन संगतः १३.
सोमेन सह राहुश्च युद्धं चक्रे सुदारुणम् संपर्कादमृस्यैव यथा राहुस्तथाऽभवत्॥ १३.
तानि सर्वाणि दृष्टानि शंभुना परमेष्ठिना असुराणां सुराणां च सर्वेषामपि वल्लभः॥ १३.
एवमुक्तस्तदा राहुः प्रणम्य शिरसा शिवम् १३.
तेन तस्य हि जातानि शिरांसि सुबहून्यपि बबंध शंभुः शिरसि शिरोभूषणवत्कृतम्॥ १३.
अशनात्कालकूटस्य नीलकंठोऽभवत्तदा १३.
दधार शिरसा तां च मुण्डमालां महेश्वरः॥ १३.
तया स्रजाऽसौ शुशुभे महात्मा देवादिदेवस्त्रिपुरांतको हरः १३.
गंगा धृता येन शिरस्सुमध्ये चंद्रं च चूडे कृतवान्भयापहः १३.