सर्वे दैत्या आसनस्था पुनश्च ते देवगणाः सुधारसं दत्तं पीडिताश्च १२.
ततस्तथाविधान्दृष्ट्वा दैत्यांस्तान्मोहमाश्रितान् १२.
देवानां रूपमास्थाय अमृतार्थं त्वरान्वितौ १२.
यदामृतं पातुकामो राहुः परमदुर्जयः १२.
तदा तस्य शिरश्छिन्नं राहोर्दुर्विग्रहस्य च भ्रममाणं तदा ह्यद्रींश्चूर्णयामास वै तदा॥ १२.
साद्रिश्च सर्वभूलोकश्चूर्णितश्च तदाऽभवत् १२.
दृष्ट्वा तदा महादेवस्तस्योपरि तु संस्थितः १२.
पीडनं तत्समीपेथ निवास इति नाम वै॥ १२.
महतामालयं यस्माद्यस्यास्तच्चरणांबुजम् १२.
केतुश्च धूमरूपोऽसावाकाशे विलयं गतः १२.
वासुदेवो जगद्योनिर्जगतां कारणं परम् १२.
असुराणां विनाशाय जातं दैवविपर्ययात् १२.
यौगपद्येन तैः सर्वैः क्षीराब्धेर्मंथनं कृतम् १२.
ततश्च ते देववरान्प्रकोपिता दैत्याश्च मायाप्रवि मोहिताः पुनः १२.
ततस्ते गर्ज्जमानाश्च आक्षिपंतः सुरान्रणे १३.
विमानमारुह्य तदा महात्मा वैरोचनिः सर्वबलेन सार्द्धम् १३.
स्वानि रूपाणि बिभ्रंतः समापेतुः स हस्रशः १३.
अश्वान्केचित्समारूढा द्विपान्केचित्तथा परे १३.
मयूरान्राजहंसांश्च कुक्कुटांश्च तथा परे १३.
गजान्खरान्परे चैव शकटांश्च तथा परे १३.
परिघायुधिनः पाशशूलमुद्गरपाणयः १३.
हयनागरथाश्चान्ये समारूढाः प्रहारिणः १३.
स्पर्द्धमानास्ततान्योन्यं गर्जंतश्च मुहुर्मुहुः १३.
त्वया कृतं महाबाहो इंद्रेण सह संगमम् १३.
ऊनेनापि हि तुच्छेन वैरिणापि कथंचन १३.
न विश्वसेत्पूर्वविरोधिना क्वचित्पराजिताः स्मोऽथ बले त्वयाधुना १३.
इत्यूचुस्ते दुराधर्षा योद्धुकामा व्यवस्थिताः १३.
चामरैश्च दिशः सर्वा लोपितं च रणस्थलम् १३.
पीत्वामृतं महाभागा वाहान्यारुह्य दंशिताः सूर्यश्चोच्चैः श्रवारूढो मृगा रूढश्च चन्द्रमाः॥ १३.
छत्रचामरसंवीताः शोभिता विजयश्रिया १३.